मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १६, ऋक् २

संहिता

इ॒मं न॑रो मरुतः सश्चता॒ वृधं॒ यस्मि॒न्राय॒ः शेवृ॑धासः ।
अ॒भि ये सन्ति॒ पृत॑नासु दू॒ढ्यो॑ वि॒श्वाहा॒ शत्रु॑माद॒भुः ॥

पदपाठः

इ॒मम् । न॒रः॒ । म॒रु॒तः॒ । स॒श्च॒त॒ । वृध॑म् । यस्मि॑न् । रायः॑ । शेऽवृ॑धासः ।
अ॒भि । ये । सन्ति॑ । पृत॑नासु । दुः॒ऽध्यः॑ । वि॒श्वाहा॑ । शत्रु॑म् । आ॒ऽद॒भुः ॥

सायणभाष्यम्

नरः कर्मणां नेतारो हे मरुतो देवा यूयं वृधं पशुपुत्रादिवर्धकमिममस्माभिः स्तूयमानमिममग्निं सश्चत । हविरानयनार्थं सेवध्वम् । कीदृशोऽग्निरित्याकाङ्क्षायामाह । यस्मिन्देवे रायो धनानि शेव्धासो दानभोगाद्युपयोगेन सखस्य वर्धकानि सन्ति । ये च देवाः पृतनासु सेनासु तदुपलक्षितेषु सङ्ग्रामेषु दूढ्यो दुष्ट ध्यानोपेतानात्मनो हिम्सकाञ्छत्रूनभिसन्ति । अभिभवन्ति । ये च विश्वाहा विश्वान्यहानि यस्मिन्नखण्डे काले तस्मिन्सर्वदा शत्रुमात्मनो द्वेष्टारमादभुः । आदभ्नुवन्ति । हिंसन्ति । एवं भूतास्ते सर्वे मरुतो यूयं तमिममग्निं सेवध्वमिति पूर्वेणान्वयः ॥ सश्चत । षस्ज सङ्ग इत्यस्माल्लोटि रूपम् । जकारस्य व्यत्ययेन चकारः । निघातः । शेवृधासः । वर्णव्यत्ययः । शं सुखं वर्धयतीति । असुन्नित्यसुन् । गुणाभावश्छान्दसः । सन्ति । अस भुवि । दूध्यः । ध्यै चिन्तायाम् । अन्येभ्योऽपि दृश्यत इति क्विप् । कृशिग्रहणात्सम्प्रसारणम् । दुरो दाशनाशदभध्येषूत्वं अक्त्व्यमुत्तरपदादेश्च ष्टुत्वमिति ऊत्वटत्वे । छन्दस्युभयथेति शसीयङादेशं जाधिश्वा यणादेशः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । शसः सुप्त्वादनुदात्तत्वे कृते उदात्तस्वरितयोर्यण इति शसः स्वरितत्वम् । आदभुः । दन्भु दम्भे । अस्माल्लिट्युसि रूपं श्रन्थिग्रन्थिदम्भिस्वञ्जीनामुपसंख्यानमिति किद्वद्भावादनुनासिकलोपः । द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यमिति द्विर्वचनाभाव यद्वृत्तयोगादनिघातः । सति शिष्टस्वरो बलीयानिति प्रत्ययस्वरः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६