मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १६, ऋक् ४

संहिता

चक्रि॒र्यो विश्वा॒ भुव॑ना॒भि सा॑स॒हिश्चक्रि॑र्दे॒वेष्वा दुवः॑ ।
आ दे॒वेषु॒ यत॑त॒ आ सु॒वीर्य॒ आ शंस॑ उ॒त नृ॒णाम् ॥

पदपाठः

चक्रिः॑ । यः । विश्वा॑ । भुव॑ना । अ॒भि । स॒स॒हिः । चक्रिः॑ । दे॒वेषु॑ । आ । दुवः॑ ।
आ । दे॒वेषु॑ । यत॑ते । आ । सु॒ऽवीर्ये॑ । आ । शंसे॑ । उ॒त । नृ॒णाम् ॥

सायणभाष्यम्

योऽयमग्निश्चक्रिः सर्वस्य जगतः कर्ता स च विश्वा भुवना विश्वानि भवनान्यभि अभिविशति । तत्सृष्ट्वा तदेवानुप्राविशदिति श्रुतेः । चक्रिः कर्ता सोऽग्निः सासहिः पुरोडशादि हविर्भारसहनशीलः सन् दुवोऽस्माभिर्दत्तं हविर्देवेषु यजनीयदेवेष्वा । आनयति । स चाग्निर्देवेषु देवनशीलेषु स्तोतृष्वा यतते । अभिमुख्येन गच्छ्ति । यद्वा विश्वानि भुवनानि चक्रिरभिसासहिरभिभवनशीलः । आकारश्चार्थे देवेषु च दुवः परिचरणं चक्रिः कर्ता । य एवं भूतः स आयतत इत्यादि पूर्ववत् । उत अपि च नृणां यज्ञस्य नेतॄणां शस्त्रिणां शंसे । शंसनं शंसः शस्त्रं तस्मिन् सोऽग्निरागच्छति । तथा नृणां मनुष्याणां सुवीर्ये शोभनवीर्योपेत युद्धे तद्रक्षणार्घमागच्छति । अनेनाग्नेः सर्वव्यापकता प्रतिपादिता भवति ॥ चक्रिः । डुकृञ् करणे । आदृगमहनजनः किकिनौ लिट् चेति किन् प्रत्ययः । लिड्वद्भावाद्द्विर्वचनम् । कित्त्वाद्गुणाभावः । नित् स्वरः । सासहिः । षह मर्षण इत्यस्माद्यङंतात्सहिवहि चलिपतिभ्यो यङंतेभ्यः किकिनौ । पा. ३-२-१७१-४ । इति किः । प्रत्ययस्वरः । यतते । यती प्रयत्ने । यद्वृत्तयोगादनिघातः । शंसे । भावे घञ् । ञित्स्वरः । नृणां नृ चेति विकल्पेन दीर्घाभावः । नामन्यतरस्यामिति विभक्तेरुदात्तत्वम् । विश्वेत्यादिषु न लोकाव्ययेति षष्ठीप्रतिषेधः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६