मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १६, ऋक् ६

संहिता

श॒ग्धि वाज॑स्य सुभग प्र॒जाव॒तोऽग्ने॑ बृह॒तो अ॑ध्व॒रे ।
सं रा॒या भूय॑सा सृज मयो॒भुना॒ तुवि॑द्युम्न॒ यश॑स्वता ॥

पदपाठः

श॒ग्धि । वाज॑स्य । सु॒ऽभ॒ग॒ । प्र॒जाऽव॑तः । अग्ने॑ । बृ॒ह॒तः । अ॒ध्व॒रे ।
सम् । रा॒या । भूय॑सा । सृ॒ज॒ । म॒यः॒ऽभुना॑ । तुवि॑ऽद्युम्न । यश॑स्वता ॥

सायणभाष्यम्

सुभग शोभनधनोपेत हे अग्ने त्वमध्वरेऽस्माभिः क्रियमाणेऽस्मिन्नग्निष्टोमादिकर्मणि बृहतो महतः व्रभूतस्य प्रजावतोऽपत्योपेतस्य वाजस्यान्नस्य शग्चि । ईशिषे । तादृशमन्नमस्मिन्नध्वरेऽस्मभ्यं देहि । किञ्च तुविद्युम्न बहुधनयुक्त हे अग्ने मयोधुना । मय इति सुखनाम शेवृधं मय इति तन्नामसु पाठात् । तद्दानाद्युपयोगहेतुतया सुखस्य भावकेनात एव यशस्वता कीर्तिमता भूयसातिप्रभूतेन रायैवं विधेन धनेनास्मान् संसृज । संयोजय ॥ शग्धि । शक्लृ शक्ता वित्यस्य लोटि बहुलं छन्दसीति विकरणस्य लुक् । हुझल्भ्यो हेर्धिरिति धिरादेशः । हेरपित्त्वादुदात्तता । राया । ऊडिदमिति विभक्तेरुदात्तत्वम् । भूयसा । बहुशब्दात् द्विवचनविभज्योपपद इतीयसुन् । बहोरोपो भू च बहोरितीयसुनः सर्वस्य लोपे प्राप्त अदेः परस्य । पा. १-१-५४ । इति प्रत्ययस्यादेर्लोपो बहोर्भूरादेशश्च । नित्स्वरः । सृज । सृज विसर्गे । तुदादिः । लोटि रूपम् । निघातः । मयोघुना । भूसत्तायामित्यस्मादौणादिको डु प्रत्ययः । तुविद्युम्न । पादादित्वादनिघातः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६