मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १७, ऋक् १

संहिता

स॒मि॒ध्यमा॑नः प्रथ॒मानु॒ धर्मा॒ सम॒क्तुभि॑रज्यते वि॒श्ववा॑रः ।
शो॒चिष्के॑शो घृ॒तनि॑र्णिक्पाव॒कः सु॑य॒ज्ञो अ॒ग्निर्य॒जथा॑य दे॒वान् ॥

पदपाठः

स॒म्ऽइ॒ध्यमा॑नः । प्र॒थ॒मा । अनु॑ । धर्म॑ । सम् । अ॒क्तुऽभिः॑ । अ॒ज्य॒ते॒ । वि॒श्वऽवा॑रः ।
शो॒चिःऽके॑शः । घृ॒तऽनि॑र्निक् । पा॒व॒कः । सु॒ऽय॒ज्ञः । अ॒ग्निः । य॒जथा॑य । दे॒वान् ॥

सायणभाष्यम्

कशः स्तौति । धर्म । धारनाद्धर्म । अग्नेर्यज्ञनिर्वाहकतया तद्धारकत्वाद्धर्माग्निः । तथा च मन्त्रः । धर्माणमग्मिं विदथस्य साधनम् । ऋग्वे-१०-९२-२ । इति । ताद्शोऽग्निः प्रथमा प्रथमं यज्ञोपक्रमे अनु अग्यायतनेष्वनुक्रमणे समिध्यमानः सम्यक् प्रज्वाल्यमानः । यद्वा । अनु धर्म धर्मसाधनभूतेषु यज्ञेषु प्रथमं समिध्यमानो विश्ववारो विश्व्यैः सर्वैर्यजमानैर्यष्टव्यतया वरणीयः शोचिष्केशः । शोचींषि ज्वालाः केशा यस्य स तथोक्तः । घृतनिर्णिक् । घृतस्य तापनद्वारा विलापनेन शोधकः । पावकोऽस्मदीयपापशोधकः । सुयज्ञः शोभनयज्ञोपेतः । एवंभूतोऽग्निर्देवानस्माभिर्यजनीयान्देवान्यजथाय यष्टुमक्तुभिरञ्जसाधनैर्घ्हृतादिभिः समज्यते । सम्यक् सिच्यते ॥ प्रथमा । सुपां सुलिगिति सुपो डादेशः । धर्म । धृञ् धारण इत्यस्मादन्येभ्योऽपि दृश्यन्त इति मनिन् । ह्रस्वत्वं छान्दसम् । नित्स्वरः । अक्तुभिः । अञ्जू व्यक्तिगतिम्रक्षणेषु । आज्यत एभिरिति बाहुलकत्वात् क्तुः करणे । कित्त्वादुपधालोपः । प्रत्यय स्वरः । आज्यते । स एव धातुः । कर्मणि यक् । अनिदितामित्युपधालोपः । विश्ववारः । विश्वैर्यजमानैर्होतृद्वारा वारो वारणं यस्येत्यत्र वृञ् वरण् इत्यस्य ण्यन्तस्य रूपं वारः । बहुव्रीहौ विश्वं संज्ञायामिति पुर्वपदान्तोदात्तत्वम् । घृतनिर्णिक् । णिजिर् शौचपोषणयोः । क्विप् । घृतं नेनेक्तीति द्वितीयातत्पुरुशत्वात्पूर्वपदस्वरः । यजथाय । यज देवपूजासङ्गतिकरणदानेषु । अस्मादौणादिकोऽथप्रत्ययः । तादर्थ्ये चतुर्थी । प्रत्ययस्वरः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७