मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १७, ऋक् ५

संहिता

यस्त्वद्धोता॒ पूर्वो॑ अग्ने॒ यजी॑यान्द्वि॒ता च॒ सत्ता॑ स्व॒धया॑ च श॒म्भुः ।
तस्यानु॒ धर्म॒ प्र य॑जा चिकि॒त्वोऽथ॑ नो धा अध्व॒रं दे॒ववी॑तौ ॥

पदपाठः

यः । त्वत् । होता॑ । पूर्वः॑ । अ॒ग्ने॒ । यजी॑यान् । द्वि॒ता । च॒ । सत्ता॑ । स्व॒धया॑ । च॒ । श॒म्ऽभुः ।
तस्य॑ । अनु॑ । धर्म॑ । प्र । य॒ज॒ । चि॒कि॒त्वः॒ । अथ॑ । नः॒ । धाः॒ । अ॒ध्व॒रम् । दे॒वऽवी॑तौ ॥

सायणभाष्यम्

हे अग्ने त्वत् त्वत्तोऽपि पूर्वः प्रथमभावी यजीयान् अतिशयेन यष्टा यो यः कश्चिद्धोता होमनिष्पादको द्विता द्वैध मध्यमे चोत्तमे च स्थाने स्वधया सोमाख्येनान्नेन सह सत्ता नोषण्णः सन् शम्भुर्यष्टॄणां सुखभूरभूत् । द्वितीयपादमेवं यास्को व्याचख्यौ । द्विता च सत्ता स्वधया च शम्भुः । द्वेधं सत्ता मध्यमे च स्थान उत्तमे च शम्भुः सुखभूः । नि. ५-३ । इति चिकित्वो धर्मविषयचेतनावन् हे अग्ने तस्य यस्त्वत्तोऽपि पूर्वभावी होता निरूपितस्तस्य होतुरुनुधर्म धर्माननु तेनानुष्ठितधर्मानुपलक्ष्य प्रयज । प्रकर्षेण देवान्पूजय । अथ आन्तरं हे अग्ने त्वं नोऽस्माकं सम्बन्धिनमध्वरमिमं यज्ञं देववीतौ देवानां प्रीत्यर्थः धाः । विधेहि ॥ यजीयान् । यष्टृ शब्दस्य तुश्छन्दसीतियसुन् । तस्मिन् तुरिष्ठेमेयःस्विति तृचो लोपः । नोत्त्वादाद्युदात्तः । द्विता । द्विशब्दात्संख्याया विधार्थे धेति धाप्रत्ययः । धकारस्य तकारश्छान्दसः । प्रत्ययस्वरः । सत्ता । शद् लृ विशरणगत्यवसादनेषु । अस्य ताच्छीलिकस्तृन् । नित्स्वरः । स्वधया । स्वर्गं लोकं दधाति यजमानस्येति स्वधा । आतोऽन्बुपसर्गे क इति प्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । शम्भुः । शं सुखमस्माद्भवतीति भूई सत्तायां विप्रसम्भ्यो । ड्वसंज्ञायामित्यत्र मितद्र्वादेरुपसंख्यानात् डुप्रत्ययः । डित्त्वाट्टिलोपः । यज । यजेर्लोटि रूपम् । चिकित्वः । कित ज्ञान इत्यस्य क्वसौ रूपं मतुवसो रुः सम्बुद्धौ छन्दसीति नकारस्य रुः । अथा नः । निपातस्येति दीर्घः । धाः । डुधाञ् धारणपोषणयोरित्यस्य छान्दसे लुङि रूपम् । अडभावश्छान्दसः । देवानां वीतिरशनं यत्र प्रीतौ सा प्रीतिर्देववीतिः । वी कान्त्यादिष्वित्यस्माद्भावे क्तिन् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । ॥ ५

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७