मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १८, ऋक् १

संहिता

भवा॑ नो अग्ने सु॒मना॒ उपे॑तौ॒ सखे॑व॒ सख्ये॑ पि॒तरे॑व सा॒धुः ।
पु॒रु॒द्रुहो॒ हि क्षि॒तयो॒ जना॑नां॒ प्रति॑ प्रती॒चीर्द॑हता॒दरा॑तीः ॥

पदपाठः

भव॑ । नः॒ । अ॒ग्ने॒ । सु॒ऽमनाः॑ । उप॑ऽइतौ । सखा॑ऽइव । सख्ये॑ । पि॒तरा॑ऽइव । सा॒धुः ।
पु॒रु॒ऽद्रुहः॑ । हि । क्षि॒तयः॑ । जना॑नाम् । प्रति॑ । प्र॒ती॒चीः । द॒ह॒ता॒त् । अरा॑तीः ॥

सायणभाष्यम्

हे अग्ने त्वमुपेतावस्माभिः क्रियमाणस्य प्रवर्त्याख्य कर्मण अभिमुख्येनागमने सुमनास्तत्कर्मसिद्ध्यर्थमनुकूलमनस्को भुत्वा नः साधुर्भव । अस्मत्सम्भन्धिकर्मसाधको भव । तत्र कृष्टान्तद्वयम् । सखेव सख्ये पितरेवेति । यथा सखा सुहृत् सख्ये मित्राय हितोपदेशेन साधुर्भवति यथा च पितरा मातपितरौ पुत्राय सन्मार्गोपदेशेन साधकौ भवतः । तद्वत् । किञ्च । जनानां मनुष्याणां क्षितयो मनुष्याः पुरुद्रोहो हि नानाविधद्रोहयुक्ताः । हि शब्दः कारणपरः । यस्माल्लोके परस्परमात्सर्यादिनान्योन्यमनसमाना जना वर्तन्ते तस्मात्त्वं प्रतीचीः प्रतीचः प्रतिकूलतयास्मदाभिमुख्येनागच्छतोऽरातीररातीन् शत्रून्प्रति दहत्वात् । त्वं प्रतिकूलः सन् भस्मसात्कुरु । भवानः । द्य्वचोऽतस्तिङ् इति संहितायां दीर्घः । उपेतौ ॥ इण् गतौ । अयनमिति भावे क्तिन् । प्रादिसमासः । तादौ च निति कृत्यताविति गतेः प्रकृतिस्वरत्वम् । सख्ये । समाने ख्यश्चोदात्त इति इण् । डित्त्वाट्टिलोपः । तत्सन्नियोगेन यलोपः । समानस्य छन्दसीत्यादिना सभावः । उदात्त इत्युक्तत्वादुपपदस्योदात्तता । साधुः । राध साध संसिद्धौ । कृवापाजीत्यादिना उण्प्रत्ययः । प्रत्ययस्वरः । प्रतीचीः । अञ्चु गति पूजनयोः । ऋत्विग्धधृगित्यादिना क्विन् । स्त्रियामुगितश्चेति ञीपि प्राप्ते पुनर्धातोरुगितः प्रतिषेध इति प्रतिषिद्धेञ्चतेश्चोपसंख्यानमिति प्रतिप्रसवात् ञीष् । तस्मिन्भसंज्ञायामच इत्यकारलोपः । चाविति दीर्घः । दहतात् । दह भस्मीकरण इत्यस्य लोण्मध्यमैकवचने हेस्तुह्योस्तातङ्गाशिषीतितातङादेशः । निघातः । अरातीः प्रतीचीः । उभयत्र लिङ्गव्यत्यय्ः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८