मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १८, ऋक् ३

संहिता

इ॒ध्मेना॑ग्न इ॒च्छमा॑नो घृ॒तेन॑ जु॒होमि॑ ह॒व्यं तर॑से॒ बला॑य ।
याव॒दीशे॒ ब्रह्म॑णा॒ वन्द॑मान इ॒मां धियं॑ शत॒सेया॑य दे॒वीम् ॥

पदपाठः

इ॒ध्मेन॑ । अ॒ग्ने॒ । इ॒च्छमा॑नः । घृ॒तेन॑ । जु॒होमि॑ । ह॒व्यम् । तर॑से । बला॑य ।
याव॑त् । ईशे॑ । ब्रह्म॑णा । वन्द॑मानः । इ॒माम् । धिय॑म् । श॒त॒ऽसेया॑य । दे॒वीम् ॥

सायणभाष्यम्

हे अग्ने इच्छनानो धनं कामयमानोऽहम् यजमान इध्मेन समिन्धनकारि समित्समूहेन घृतेनाज्येन सह हव्यं हवनयोग्यं हविः पुरोडाशादिकं जुहोमि । किमर्थम् । तरसे वेगाय तव सततगमनसिद्ध्यर्थं बलाय सामर्थ्याय । पुरोडाशादिहविर्भारवहनसिद्ध्यर्थं त्वयि हविः प्रक्षिपामि । किञ्च ब्रह्मणा स्तोत्रेण वन्दमानस्त्वां स्तुवन्नहं यावदीशे यावद्वन्दनं वोढुं शक्नोमि तावद्देहि । त्वं चेमामस्माभिः क्रियमाणां धियं त्वद्विषयां स्तुतिं शतसेयायापरिमितधनपर्यवसानाय देवीं दीप्तामतिप्रभूतां कुरु ॥ इध्मेन । ञि इन्धी दीप्तौ । इध्यतेऽनेनाग्निरितीध्मः काष्ठविशेषः । इषियुधीन्धिदसिश्याधूसूभ्यो मगिति करणे मक् । कित्त्वादनुनासिक लोपः । प्रत्यय स्वरः । इच्छमानः । इषु इच्छायाम् । व्यत्ययेन शानच् । इषुगमियमां छ इति छकारः । जुहोमि । हु दानादनयोरित्यस्य लिटि रूपम् । पादादित्वादनिघातह् । हव्यम् । हवमर्हतीति छन्दसि चेति यप्रत्ययः । भ संज्ञायां यस्येति लोपः । प्रत्यय स्वरः । यावत् । यच्छब्दात् यत्तदेतेभ्यः । परिमाणे वतुबिति वतुप् । आसर्वनाम्न इत्याकारः । आद्युदात्तः । ईशे । ईश ऐश्वर्य इत्यस्य लडुत्तमैकवचन इटष्टेरेत्वम् । अदादित्वाच्छपो लुक् । शतसेयाय । षो अन्तकर्मणि । आदेच उपदेशेऽशितीत्यात्वम् । कृदुत्तरपदप्रकृतिस्वरः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८