मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १८, ऋक् ४

संहिता

उच्छो॒चिषा॑ सहसस्पुत्र स्तु॒तो बृ॒हद्वयः॑ शशमा॒नेषु॑ धेहि ।
रे॒वद॑ग्ने वि॒श्वामि॑त्रेषु॒ शं योर्म॑र्मृ॒ज्मा ते॑ त॒न्वं१॒॑ भूरि॒ कृत्व॑ः ॥

पदपाठः

उत् । शो॒चिषा॑ । स॒ह॒सः॒ । पु॒त्र॒ । स्तु॒तः । बृ॒हत् । वयः॑ । श॒श॒मा॒नेषु॑ । धे॒हि॒ ।
रे॒वत् । अ॒ग्ने॒ । वि॒श्वामि॑त्रेषु । शम् । योः । म॒र्मृ॒ज्म । ते॒ । त॒न्व॑म् । भूरि॑ । कृत्वः॑ ॥

सायणभाष्यम्

सहसस्पुत्र हे अग्ने शोचिषा स्वकीयया दीप्त्या उत् । उद्दीप्यस्व । स्तुतः स्तोत्रशस्त्रसाधनभूतैर्मन्त्रैः स्तुतस्त्वं शशमानेषु । शशमानः शंसमानः । नि. ६-८ । इति यास्कः । त्वद्विषयसंसनं कुर्वाणेषु विश्वामित्रेषु विश्वामित्रगोत्रोत्पन्नेषु । विश्वं मित्रमस्येति विश्वामित्र एकः । एकस्मिन्बहुवचनं पूजार्थम् । तथाविधेष्वस्मासुरेवद्धनयुक्तं बृहत्प्रभूतं वयः । वयःशब्दोऽन्नवाची । अर्को वयः क्षद्मेत्यन्नानामसु पठितत्वात् । तादृशं प्रभूतमन्नं धेहि । विधेहि । किञ्च शं रोगाणां शमनञ्चास्मासु धेहि । योर्भयानां यावनममिश्रणं च धेहि । शमनं च रोगाणां यावनं च भायानाममिति यास्कः । कृत्वोऽस्माभिः क्रियमाणस्य कर्मणः प्रयोजकत्वेन कर्तर्हे अग्ने ते तव तन्वं तनुं भूरि बहुवारं मर्मृज्म । पुनः पुनः सोमाज्य पयः प्रभृतिभिर्वयं सिञ्चामः । शशमानेषु । शशप्लुतगतावित्ययं धातुरत्र स्तुत्यर्थः । ताच्छील्यवयोवचनशक्तिष्विति चानश् । चित इत्यन्तोदात्तत्वम् । धेहि । डु धाञ् धारणपोषणयोरित्यस्य लोटि रूपम् । रेवत् । रयिरस्यास्तीति मतुप् । ह्रस्वनुड्भ्यां मतुबिति मतुप उदात्तत्वम् । छन्दसीर इति तस्य वत्वम् । रयेर्मतौ बहुलं छन्दसीति सम्प्रसारणम् । परपूर्वत्वम् । गुणः । विश्वामित्रेषु । मित्रे चर्षौ । पा- ६-३-१३० । इति पूरपदस्य दीर्घत्वम् । बहुव्रीहौ विश्वं सज्ञायामिति पूर्वपदान्तोदात्तत्वम् । मर्मृजन्म । मृजू शुद्धावित्यस्य वर्तमाने लिट्युत्तमबहुवचने मसो मादेशः । अनित्यमागमशासनमितीडाभावः । रेफश्छान्दसः । पादादित्वादनिघातः । प्रत्ययस्वरः । भूरि । भू सत्तायाम् । अदिशदिभूशुभिभ्यः क्रिन्निति क्रिन् । कित्त्वाद्गुणाभावः । नित्स्वरः । कृत्वः । डुकृञ् करणे । सम्पदादित्वाद्भावे क्विप् । तदस्यास्तीति मतुप् । झय इति तस्य वत्वम् । तसौ मत्वर्थ इति भसंज्ञायां तकारस्य जस्त्वाभावः मतुवसो रुतिति तकारस्य रुत्वम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८