मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १८, ऋक् ५

संहिता

कृ॒धि रत्नं॑ सुसनित॒र्धना॑नां॒ स घेद॑ग्ने भवसि॒ यत्समि॑द्धः ।
स्तो॒तुर्दु॑रो॒णे सु॒भग॑स्य रे॒वत्सृ॒प्रा क॒रस्ना॑ दधिषे॒ वपूं॑षि ॥

पदपाठः

कृ॒धि । रत्न॑म् । सु॒ऽस॒नि॒तः॒ । धना॑नाम् । सः । घ॒ । इत् । अ॒ग्ने॒ । भ॒व॒सि॒ । यत् । सम्ऽइ॑द्धः ।
स्तो॒तुः । दु॒रो॒णे । सु॒ऽभग॑स्य । रे॒वत् । सृ॒प्रा । क॒रस्ना॑ । द॒धि॒षे॒ । वपूं॑षि ॥

सायणभाष्यम्

सुसनितरभिलषितधनानां सुष्ठु दातर्हे अग्ने धनानां कनकपश्वादीनां मध्ये रत्नमुत्तमं धनं कृधि । विधेहि । मयं दत्स्व । यद्यदात्वं समिद्धः । सोमाज्यादिभिः सम्यगिद्धो दीप्तो वर्तसे तदा स घेत् स तादैश एव त्वं धनस्य दाता खलु भवसि । किञ्च सुभगस्य तद्विषयस्तुत्या शोभनधनयुक्तस्य स्तोतुर्यजमानस्य दुरोणे गृहे सृप्रा प्रसर्पणशीलौ कर्मकरणार्घं प्रसृतौ करस्ना कर्मणां प्रस्नातारौ बाहू । करस्नौ बाहू कर्मणां प्रस्नातारौ । नि. ६-१७ । इति यास्कः । वपूंषि रूपाणि । वर्पो वपुरिति रूपानामसु पठितत्वात् । तादृशौ बाहू भास्वराणि ज्योतींषि च रेवत् धनयुक्तं यथा भवति तथा दधिषे । धारयसि ॥ सुसनितः । षणु दान इत्यस्य तृचि रूपम् । आमन्त्रितनिघातः । सृप्रा । सृप् लृ गतौ अस्मात्स्फायितञ्चिवञ्चीत्यादिना रक् । कित्त्वादगुणः । प्रत्ययस्वरः । करस्ना करोति फलमिति करः कर्म । पङाद्यजन्तः । कर्मणि स्ना शोधनं ययोस्तौ । यद्वा कर्मणां शोधनं याभ्यामिति बहुव्रीहौ पूर्वपदस्वरः । दधिषे । डुधाञ् धारण पोषणयोरित्यस्य लटि छन्दस्युभयथेति धास आर्धधातुकत्वादिट् । आतो लोपः । निघातः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८