मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १९, ऋक् ५

संहिता

यत्त्वा॒ होता॑रम॒नज॑न्मि॒येधे॑ निषा॒दय॑न्तो य॒जथा॑य दे॒वाः ।
स त्वं नो॑ अग्नेऽवि॒तेह बो॒ध्यधि॒ श्रवां॑सि धेहि नस्त॒नूषु॑ ॥

पदपाठः

यत् । त्वा॒ । होता॑रम् । अ॒नज॑न् । मि॒येधे॑ । नि॒ऽसा॒दय॑न्तः । य॒जथा॑य । दे॒वाः ।
सः । त्वम् । नः॒ । अ॒ग्ने॒ । अ॒वि॒ता । इ॒ह । बो॒धि॒ । अधि॑ । श्रवां॑सि । धे॒हि॒ । नः॒ । त॒नूषु॑ ॥

सायणभाष्यम्

हे अग्ने यजथाय यजनार्थं निषादयन्तो निवसन्तो देवा दीप्यमाना ऋत्विजो मियेधे मेधे यज्ञे योगारं देवानामाह्वातारं त्वा त्वां यद्यस्मादनजन् । घृताहुतिभिरौक्षन् । यद्वा निषादयन्तो होतारं होमनिष्पावकं त्वां बर्हिष्युपवेशयन्त ऋत्विजो घृतैरसिञ्चन् तस्मात्स तथाविधस्त्वमिहास्मिन्कर्मणिनो‍स्माकमविता पालयिता भवामीति बोधि । बुध्यस्व । किञ्च नस्तनुष्वस्माकं तनुजेष्वपत्येषु श्रवांस्यन्नान्यधि धेहि । अधिकं निधेहि ॥ अनजन् । अञ्जू व्यक्तिगतिम्रक्षणेषु । अस्मालङ् रुधादित्वात् श्नम् । छान्दसत्वादल्लोपाभावः । अनिदितामित्युपधालोपः । निषादयन्तः । षदलृ विशरणगत्यवसादनेषु । चुरादिः । सदेरप्रतेरिति षत्वम् । यद्वा । हेतुमति णिच् । शतुर्लसार्वधातुकस्वरेणानुदात्तत्वे कृते णिच् स्वरः । बोधि । बुध अवगहने । लोटि बहुलं छन्दसीति शपो लुक् । सेर्ह्यपिच्चेति सिपो हिरादेशः । वा छन्दसीति विकल्पेन पित्त्वाद्गुणः । हुझुल्भ्यो हेर्धिरिति हेर्धिरादेशः । धकारलोपष्छान्दसः । निघातः । धेहि । दधातेर्लोटि ऋपं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९