मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २०, ऋक् ५

संहिता

द॒धि॒क्राम॒ग्निमु॒षसं॑ च दे॒वीं बृह॒स्पतिं॑ सवि॒तारं॑ च दे॒वम् ।
अ॒श्विना॑ मि॒त्रावरु॑णा॒ भगं॑ च॒ वसू॑न्रु॒द्राँ आ॑दि॒त्याँ इ॒ह हु॑वे ॥

पदपाठः

द॒धि॒ऽक्राम् । अ॒ग्निम् । उ॒षस॑म् । च॒ । दे॒वीम् । बृह॒स्पति॑म् । स॒वि॒तार॑म् । च॒ । दे॒वम् ।
अ॒श्विना॑ । मि॒त्रावरु॑णा । भग॑म् । च॒ । वसू॑न् । रु॒द्रान् । आ॒दि॒त्यान् । इ॒ह । हु॒वे॒ ॥

सायणभाष्यम्

हे दधिक्रावादयः सर्वे देवा होताहं दधिक्रां दधिक्रावाणमग्निमुषसं च देवीमुषोऽभिमानिनीं देवतां च बृहस्पतिं देवं द्योतमानं सवितारं सर्वस्य जगतः प्रेरकं देवं च अश्विना अश्विनौ देवौ मित्रावरुणौ भगं सूर्यं च वसूनष्टौ वसून् रुद्रानेकादश रुद्रान् आदित्यान् द्वादशादित्यान् एतान्सर्वान् हविर्भुजो युष्मानिहास्मदीये कर्मणि हुवे । हविःस्वीकरणार्थमाह्वयामि ॥ दधिक्राम् । दधातीति दधिः । आदृगमहनेत्यादिना किप्रत्ययः । दधीत्युपपदे क्रमेर्जनसनेत्यादिना विट् । विड्वनोरित्यात्वम् । देवीम् । देवस्य पत्नी देवी । पुंयोगादाख्यामिति ञीष् । यस्येति लोपः । प्रत्ययस्वरेणान्तोदात्तः । बृहस्पतिम् । तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्चेति पतिशब्दे परतो बृहच्छब्दस्य तलोपः सुडागमश्च । उभे वनस्पत्यादिषु युगपदित्युभयपदाद्युदात्तत्वं सवितारम् । षू प्रेरण इत्यस्य तृचि अर्धधातुकस्येड्वलादेरितीडागमः । चित्वादन्तोदात्तत्वम् । रुद्रा आदित्या इत्यत्र संहितायां शसो नकारस्य दीर्घादटि समानपाद इति रुत्वम् । ततः पूर्वस्यावर्णस्य आतोऽटि नित्यमित्यनुनासिकत्वम् । भो भगो अघो अपुर्वस्य योऽशीति रोर्यादेशः । लोपः शाकल्यस्येति तस्य लोपः । यलोपस्यासिद्धत्वात् स्वरसन्धिर्न भवति । अतो रुद्रा आदित्या इति भवति । एवमेकस्मिन्पाद आकारादटि परतो नकारस्य रुत्वयत्वपूर्वसवर्णानुनासिकादेशा उन्नेयाः । हुवे । ह्वयतेर्लटि बहुलं छन्दसीति सम्प्रसारणम् । इटष्टित आत्मनेपदानामित्येत्वम् । उवङादेशः । निघातः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०