मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २१, ऋक् १

संहिता

इ॒मं नो॑ य॒ज्ञम॒मृते॑षु धेही॒मा ह॒व्या जा॑तवेदो जुषस्व ।
स्तो॒काना॑मग्ने॒ मेद॑सो घृ॒तस्य॒ होत॒ः प्राशा॑न प्रथ॒मो नि॒षद्य॑ ॥

पदपाठः

इ॒मम् । नः॒ । य॒ज्ञम् । अ॒मृते॑षु । धे॒हि॒ । इ॒मा । ह॒व्या । जा॒त॒ऽवे॒दः॒ । जु॒ष॒स्व॒ ।
स्तो॒काना॑म् । अ॒ग्ने॒ । मेद॑सः । घृ॒तस्य॑ । होत॒रिति॑ । प्र । अ॒शा॒न॒ । प्र॒थ॒मः । नि॒ऽसद्य॑ ॥

सायणभाष्यम्

गाधी प्रार्थयते । हे जातवेदो जातप्रज्ञाग्ने नोऽस्माकं सम्बन्धिनमिमं यज्ञं पशुयागममृतेषु मरणधर्मरहितेषु यष्टव्यदेवेषु धेहि । तदधीनतया समर्पय । त्वं चेमा इमान्यस्माभिर्दीयमानानि हव्या हव्यानि हवींषि जुषस्व । सेवस्व । किञ्च होतर्देवानामाह्वातः । अग्निर्वैदेवानां होतेत्याम्नानात् । तादृश हे अग्नेः निषद्य वेद्यामुपविश्य प्रथमः सर्वेषामृत्विजामादिमः सन् मेदसो वपाख्यस्य हविषो घृतस्याज्यस्य च स्तोकानाम् । द्वितीयार्थे षष्ठी । मेदोघ्हृतयोर्येस्तोका विन्दवो विद्यन्ते तान्प्रकर्षेणाशान । भक्षय । पिबेत्यर्थः ॥ धेहि । दधातेर्लोटि रूपम् । जुषस्व । जुषी प्रीतिसेवनयोरित्यस्य लोट्यात्मनेपदिनो रूपम् । अशान । अश भोजन इत्यस्य लोटि हलः श्नः शानज्झौ । पा.३-१-८३ ॥ इति शानजादेशः । पश्चादतो हेरिति हेर्लुक् । निघातः । प्रथमः । प्रथप्रख्याने । प्रथम प्रथन्तेऽस्माद्द्वितीयादय इति । प्रथेरमच् । उ. ५-६८ । इत्यमच् । चित्वादन्तोदात्तः । निषद्य । षदलृ विशरणगत्यवसादनेष्वित्यस्य ल्यपि रूपम् । सदेरप्रतेरिति षत्वम् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१