मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २१, ऋक् ५

संहिता

ओजि॑ष्ठं ते मध्य॒तो मेद॒ उद्भृ॑तं॒ प्र ते॑ व॒यं द॑दामहे ।
श्चोत॑न्ति ते वसो स्तो॒का अधि॑ त्व॒चि प्रति॒ तान्दे॑व॒शो वि॑हि ॥

पदपाठः

ओजि॑ष्ठम् । ते॒ । म॒ध्य॒तः । मेदः॑ । उत्ऽभृ॑तम् । प्र । ते॒ । व॒यम् । द॒दा॒म॒हे॒ ।
श्चोत॑न्ति । ते॒ । व॒सो॒ऽइति॑ । स्तो॒काः । अधि॑ । त्व॒चि । प्रति॑ । तान् । दे॒व॒ऽशः । वि॒हि॒ ॥

सायणभाष्यम्

हे अग्ने ओजिष्ठं अतिशयेन सारयुक्तं मेदो वपाख्यं हविर्मध्यतः पशोर्मध्यभागात्ते त्वदर्थमुद्भृतमुद्धृतमध्वर्य्वादयो वयमस्मिन्पशौ ते तुभ्यं प्रददामहे । उद्धृतं तद्वपाख्यं हविः प्रयच्छामः । वसो सर्वस्य जगतो वासयितर्हे अग्ने त्वच्यधि वपायामुपरि ये स्तोका घृतमिश्रा बिन्दवस्ते ते त्वदर्धं श्चोतन्ति । स्रवन्ति । यद्वा ते तव त्वच्यधि ज्वालाख्यशरीरस्योपरि श्चोतन्ति । तान् सोकान्देवशो देवेषु प्रति विहि । प्रत्येकं विभजस्व ॥ मध्यतः । मध्यशब्दात् पञ्चम्यास्तसिः । पा.५-४-४४-१ । इति तसिः । प्रत्ययस्वरः । उद्भृतम् । ह्रु ञ् हरणे । कर्मणि क्तः । हैग्रहोर्भश्छन्दसीति हकारस्य भकारः । गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम् । ददामहे । दद दान इत्यस्य लिट ङुत्त्वादात्मनेपदम् । अतो दीर्घोयञीति दीर्घः । निघातः । श्चोतन्ति । श्चुतिर् क्षरणे । पादादित्वादनिघातः । अन्तेर्लसार्वधातुकस्वरेणानुदात्तत्वे कृते धातुस्वरः । त्वचि । तनु विस्तारे । तनोतेरनश्चवः । उ. २-६३ । इतिकर्तरि कर्मणि वा चिक् । अकारनकारयोर्वकारादेशः । तनोति तायते वा त्वक् । सावेकाच इति विभक्तेरुदात्तत्वम् । विहि । वी कान्तिगत्यादिष्वित्यस्य लोट्यदादित्वाच्छपो लुक् । ह्रस्वश्छान्दसः । निघातः । खिलम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१