मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २२, ऋक् ५

संहिता

इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।
स्यान्न॑ः सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥

पदपाठः

इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ ।
स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥

सायणभाष्यम्

हे अग्ने पुरुदम्सम् । अपोऽप्नोदम्सो वेष इति कर्मनामसु पठितत्वाद्दंसः शब्दः कर्मवाची । पूरूणि बहूनि दम्साम्सि कर्माणि यस्याः सा । तां बहुकर्माणं गोः सनिं गवादिपशून्सम्पादयित्रीमिळामेतन्नामिकां गोरूपां देवतां शश्वत्तमं निरन्तरं हवमानाय यजमानाय मह्यं साध । साधय । किञ्च नोऽस्माकं सूनुः पुत्रस्तनयः पौत्रः स्याद्भवतीति ते तव या सुमतिशोभना बुद्धिः सा विजावाबन्ध्या सत्यस्मे अस्माकं भूतु । भवतु ॥ शश्वत्तमम् । उच्छादिषु पाठादन्तोदात्तत्वम् । साध । राध साध सम्सिद्धौ । अन्तर्भावितण्यर्थोऽयम् । लोटि व्यत्ययेन शप् । सेर्ह्यपिच्चेति हिरादेशः । तस्यातो हेरिति लुक् । निघातः । विजावा । जनीप्रादुर्भावे । अस्मादन्येभ्योऽपि दृश्यन्त इति वनिप् । विड्वनोरनुनासिकस्यादित्यात्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । लिङ्गव्यत्ययः । भूतु । भु सत्तायाम् । बहुलं छन्दसीति तपो लुक् । भुसुवोस्तिङीति गुणप्रतिषेधः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२