मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २३, ऋक् ४

संहिता

नि त्वा॑ दधे॒ वर॒ आ पृ॑थि॒व्या इळा॑यास्प॒दे सु॑दिन॒त्वे अह्ना॑म् ।
दृ॒षद्व॑त्यां॒ मानु॑ष आप॒यायां॒ सर॑स्वत्यां रे॒वद॑ग्ने दिदीहि ॥

पदपाठः

नि । त्वा॒ । द॒धे॒ । वरे॑ । आ । पृ॒थि॒व्याः । इळा॑याः । प॒दे । सु॒ऽदि॒न॒ऽत्वे । अह्ना॑म् ।
दृ॒षत्ऽव॑त्याम् । मानु॑षे । आ॒प॒याया॑म् । सर॑स्वत्याम् । रे॒वत् । अ॒ग्ने॒ । दि॒दी॒हि॒ ॥

सायणभाष्यम्

पुरीष्यासः सिकतासम्मिश्रा अग्नयश्चित्या अग्नयः प्रवणेभिर्मृत्खननसाधनभूतैरभ्र्यादिभिः सहिताः सजोषसः परस्पर सङ्गताः सन्तो यज्ञमस्माभिः क्रियमाणमग्निचयनपूर्वकमिमं सोमयागं जुषन्ताम् । सेवन्ताम् । किञ्च । अद्रुहोऽद्रोग्धारो यूयमनमीवा रोगादिवर्जिता महीर्महत्य इष ऊर्जो रोगादि रहितान्यन्नान्यस्मभ्यं प्रयच्छताम् । पुरीष्यासः । पॄ पालन पूरणयोः । ईषन्नित्यनुवृत्तौ शॄपॄभ्यां कित् । उ. ४-२७ । इतीषन्प्रत्ययः किच्च । कित्त्वाद्गुणे प्रतिषिद्ध उदोष्ठ्यपूर्वस्येत्युत्वम् । रपरः । पृणाति पूर्यते वेति पुरीषम् । पुरीषम् । पूरीषं पृणातेः पूरयतेर्वा । नि. २-२२ । इति यास्कः । तदर्हन्तीति पुरीश्याः । छन्दसि चेति यप्रत्य्६अयः । यचि भमिति भसंज्ञायां यस्येति लोपः । प्रत्ययस्वरः । प्रावणेभिः । वन षण संभक्तावित्यस्मात्पुम्सि संज्ञायां यस्येति लोपः । प्रत्ययस्वरः । प्रावणेभि । वनषण सम्भक्तावित्यस्मात्पुंसि संज्ञायां घः प्रायेणेति करणे घ प्रत्ययः । प्रकर्षेण वन्यते सम्भज्यते सम्श्लिष्यते मृदेभिरिति प्रावणानि खनित्राणि । प्रनिरन्तः । पा. ८-४-५ । इत्यादिनाणत्वं वनं समासे । पा. ६-२-१७८ । इत्यन्तोदात्तत्वं कृदुत्तरपदप्रकृतिस्वरः । यद्वा । प्रङ् गतौ । प्रवन्ते गच्छन्ति मृत्खननं प्रतीति चलनशब्दार्थदकर्मकाद्युच् । पा. ३-२-१४८ । इति युच् । चित्स्वरः । पुर्वस्मिन्पक्षेऽवग्रहाभावश्छान्दस इति वक्तव्यम् । जुषन्तां जुषी प्रीतिसेवनयोरित्यस्य लोटि रूपम् । पादादित्वादनिघातः । महीः । महच्छब्दादुगितश्चेति ङीप् तकारलोपष्छान्दसः । प्रत्ययस्वरेणान्तोदात्तः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३