मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २६, ऋक् १

संहिता

वै॒श्वा॒न॒रं मन॑सा॒ग्निं नि॒चाय्या॑ ह॒विष्म॑न्तो अनुष॒त्यं स्व॒र्विद॑म् ।
सु॒दानुं॑ दे॒वं र॑थि॒रं व॑सू॒यवो॑ गी॒र्भी र॒ण्वं कु॑शि॒कासो॑ हवामहे ॥

पदपाठः

वै॒श्वा॒न॒रम् । मन॑सा । अ॒ग्निम् । नि॒ऽचाय्य॑ । ह॒विष्म॑न्तः । अ॒नु॒ऽस॒त्यम् । स्वः॒ऽविद॑म् ।
सु॒ऽदानु॑म् । दे॒वम् । र॒थि॒रम् । व॒सु॒ऽयवः॑ । गीः॒ऽभिः । र॒ण्वम् । कु॒शि॒कासः॑ । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

विश्वामित्रः स्तौति । हे अग्ने हविष्मन्तः सम्भृतहविष्का वसूयवो धनमात्मन इच्छन्तः कुशिकासः कुशिकगोत्रोत्पन्ना वयं वैश्वानरम् । विश्वे नरा अग्निप्रणयनादि क्रियाया नेतारो यस्मेति विश्वानरोऽग्निः तस्य सम्बन्धी वैश्वानरः अपत्यमिति यावत् । यद्वा विश्वानर एव वैश्वानरः । तद्भितोऽनन्यार्थो राक्षसवायसादिवत् । तमनुषत्यं सत्येनानुगतं कर्मानुरूपफलप्रदायिने सत्यप्रतिज्ञं स्वर्विदं स्वर्गादिलक्षणफलस्य ज्ञातारं अत एव सुदानं सुष्ठु फलस्य दातारं रथिरं रथवन्तं अत एव रण्वं यज्ञान्गच्छन्तं देवं द्योतमानं तमिममग्निं मनसा निचाय्य अन्तः करणे नैवविधगुणविशिश्वस्त्वमिति ज्ञात्वा गीर्भिः स्तुतिलक्षणाभिर्वाग्भिर्हवामहे । इह कर्मणित्वामाह्वयामः । वैश्वानरम् । नरे संज्ञायामिति पूर्वपदस्य दीर्घत्वम् । विश्वानरस्येदमित्यर्थे तस्येदमित्यण् । प्रत्ययस्वरः । निचाय्य । चायृ पूजनिशामनयोरित्यस्य ल्यपि रूपम् । लित्स्वरः । अनुषत्यम् । अनुगतं सत्येन । अवादयः क्रष्टाद्यर्थे तृतीययेति समासः । सुषामादित्वात्षत्वम् । निरुदकादित्वादन्तोदात्तत्वम् । सुदानुम् । डुदाञ् दाने । दाभाभ्यां नुरिति कर्तरि नुप्रत्ययः । परादिश्छन्दसि बहुलुमित्युत्तरपदाद्युदात्तत्वम् । रथिरम् । रथशब्दान्मतुबर्थे मेधारथाभ्यामिरनिरचौ व्यक्तव्यावितीरच् । चित्स्वरः । वसूयवः । वस्वात्मन इच्छन्त इति सुप आत्मनः क्यच् । अकृत्सार्वधातुकर्य्रिति दीर्घः । क्याच्छन्दसित्युप्रत्ययः । अतो लोपः । प्रत्ययस्वरः । रण्वम् । रविर्गत्यर्थः । रण्वति यज्ञान्गच्छ्तीति रण्वः । पचाद्यजन्तः । चित्स्वरः । कुशिकासः । कुशिकशब्दाद्गोत्रमित्यर्थे विदादित्वादञ् । तस्य बहुषु यञञोश्च । पा. २-४-६४ । इति लुक् । हवामहे । ह्वयतेर्बहुलं छन्दसीति सम्प्रसारणं निघातः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६