मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २६, ऋक् ४

संहिता

प्र य॑न्तु॒ वाजा॒स्तवि॑षीभिर॒ग्नयः॑ शु॒भे सम्मि॑श्ला॒ः पृष॑तीरयुक्षत ।
बृ॒ह॒दुक्षो॑ म॒रुतो॑ वि॒श्ववे॑दस॒ः प्र वे॑पयन्ति॒ पर्व॑ताँ॒ अदा॑भ्याः ॥

पदपाठः

प्र । य॒न्तु॒ । वाजाः॑ । तवि॑षीभिः । अ॒ग्नयः॑ । शु॒भे । सम्ऽमि॑श्लाः । पृष॑तीः । अ॒यु॒क्ष॒त॒ ।
बृ॒ह॒त्ऽउक्षः॑ । म॒रुतः॑ । वि॒श्वऽवे॑दसः । प्र । वे॒प॒य॒न्ति॒ । पर्व॑तान् । अदा॑भ्याः ॥

सायणभाष्यम्

वाजा वेगवन्तोऽग्नयः प्रयन्तु । जलमभिलक्ष्य गच्छन्तु । गताश्च तेऽग्नयस्तविषीभिर्बलयुक्तैर्मरुद्भिः शुभे जले संमिश्लाः परस्परं सङ्गताः सन्तः पृशतीर्बिन्दूनयुक्षत । अयुन्जन् । जले बिन्दूनकुर्वन् । यद्वा वाजा वेगवन्तोऽगन्यस्तविषीभिर्बलयुक्तैर्मरुद्भिर्जलमनुलक्ष्य प्रयन्तु । गच्छ्न्तु । ते च मरुतः शुभे जले सम्मिश्ला अग्निभिः सङ्गताः सन्तः पृषतीश्चित्रवर्णा वाहनरूपा वडवा अयुक्षत । रथे मेघभेदनार्थे ता अतौक्षुः । रथारूढास्ते विश्ववेदसः प्राणिकृतकर्माभिज्ञानयुक्ता अदाभ्याः केनाप्यतिरस्कार्या मरुत एवं विधा वायवो बृहदुक्षः प्रभूतसेक्तॄन् पर्वतान्मेघान् प्रवेपयन्ति । यथा प्रभूत वृष्टिर्भवति तथा मेघान् चालयन्ति ॥ तविषीभिः । तव गताविति सौत्रोधातुः । अस्मात्तवेर्णिद्वेति टिषच् निच्च । तवन्ति सन्चरन्त्याकाश इति तविषा वायवः । टिड्ढाणञिति ङीप् । लिङ्गव्यत्ययः । नित्त्वादाद्युदात्तः । पृषतीः । पृषु सेचने पॄ पालनपूरण योरिति वा । अस्माद्वर्तमाने पृद्बृहन्महदिति निपातनादतिप्रत्ययः । शतृवद्भवति । उगितश्चेति ङीप् । पर्षन्तीति पृषत्यः शीकराः । पृणन्ति पालयन्तीति पृषत्यो वडवाः । अयुक्षत । युजिर् योग इत्यस्य लुङि सिचि रूपम् । निघातः । बृहदुक्षः । उक्ष सेचन इत्यस्मात् क्विप् । कृदुत्तरपदप्रकृतिस्वरः । वेपयन्ति । टुवेपृ कम्पने । निघातः । पर्वतान् पर्व पुरण इत्यस्मात् भृमृदृशीत्यादिना अतच् । पर्वति पुरयति भूमिमुदकेनेति पर्वतो मेघः । व्यत्ययेनाद्युदात्तः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६