मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २७, ऋक् १

संहिता

प्र वो॒ वाजा॑ अ॒भिद्य॑वो ह॒विष्म॑न्तो घृ॒ताच्या॑ ।
दे॒वाञ्जि॑गाति सुम्न॒युः ॥

पदपाठः

प्र । वः॒ । वाजाः॑ । अ॒भिऽद्य॑वः । ह॒विष्म॑न्तः । घृ॒ताच्या॑ ।
दे॒वान् । जि॒गा॒ति॒ । सु॒म्न॒युः ॥

सायणभाष्यम्

हे ऋतवो वाजाः । वजन्ति गच्छन्तीति वाजा मासाः । अभिद्यवः । अभितोद्यवो दिवसा येष्वित्यभिद्यवोऽर्धमासाश्च । हविष्मन्तो हविर्भाजो देवाः । घृताज्या । घृतमञ्चतीति घृताची गौः । तथा च तैत्तिरीयकम् । देवा हविष्मन्तो गौर्घृताची । तै. सम्. २-५-७-४ । इति । यद्वा । हविष्मन्तो हविषः क्षीरादेः प्रदातारः पशवो घृताच्या । घृतमञ्चति प्राप्नोतीति घृताची स्रुक् । तथा च वाजसनेयकम् । पशवो हविष्मन्तः । स्रुग्घृताचीति । तया घृताच्या सहिता हविष्मन्तो देवाः पशवश्च मासाश्चार्धमासाश्चेति सर्वे वो युष्माकं यजनार्थं प्रभवन्ति । तेषु वाजादिषु प्रभवत्सु सत्सु सुम्नयुः सुखमात्मन इच्छन्यजमानो देवाञ्जुगाति । यज्ञद्वारा देवान्प्रप्नोति । उक्तार्थे तैत्तिरीयब्राह्मणम् । प्र वो वाजा इत्यन्वाह मासा ऐ वाजा अर्धमासा अभिद्यवो देवा हविष्मन्तो गौर्घृताची यज्ञो देवाञ्जुगाति यजमानः सुम्नयुः । (तै. सं. २-५-२-४) । इति अभिद्यवः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । घृताच्या । घृ क्षरणदीप्त्योः । अस्मादञ्जिघृषिभ्यः क्तः । उ. ३-८९ । इति कर्मणि क्तः । घृतमाज्यमञ्जतीत्यृत्विग्दधृगित्यादिना क्विन् । अनिदितामित्युपधालोपः । अञ्चतेश्चोप संख्यानमिति ङीप् । चाविति पूर्वपदान्तोदात्तत्वम् । जिगाति । गातिर्गत्यर्थः । छान्दसो जुहोत्यादिः । निघातः । सुम्नयुः । सुम्नं सुखमात्मन इच्छन्निति सुप आत्मनः क्यच् । क्याच्छन्दसीत्युः । प्रत्यय स्वरः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८