मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २७, ऋक् २

संहिता

ईळे॑ अ॒ग्निं वि॑प॒श्चितं॑ गि॒रा य॒ज्ञस्य॒ साध॑नम् ।
श्रु॒ष्टी॒वानं॑ धि॒तावा॑नम् ॥

पदपाठः

ईळे॑ । अ॒ग्निम् । वि॒पः॒ऽचित॑म् । गि॒रा । य॒ज्ञस्य॑ । साध॑नम् ।
श्रु॒ष्टी॒ऽवान॑म् । धि॒तऽवा॑नम् ॥

सायणभाष्यम्

विपश्चितं मेधाविनं यज्ञस्य साधनं यज्ञस्य निर्वाहकं श्रुष्टीवानं सुखवन्तं यद्वा वेगवन्तं धितावानम् । वानं वननीयं धनं धितं निहितं यस्य तं हिहितधनम् । तमिममग्निं गिरा स्तुतिलक्षणया वाचेळे । विश्वामित्रोऽहं स्त्ॐइ । ईळे । ईड स्तुतौ । श्रुष्टीवानम् । वन षण सम्भक्तावित्यस्माद्विच् । श्रुष्टी वनतीति श्रुष्टीवा । कृदुत्तरपदस्वरः । धितावानम् । दधातेर्निष्ठायां धिरादेशश्छान्दसः । वन सम्भक्तौ । कर्मणि घञ् । बहुव्रीहौ निष्ठेति धितशब्दस्य पूर्वनिपातः । पूर्वपदप्रकृतिस्वरः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८