मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २७, ऋक् ४

संहिता

स॒मि॒ध्यमा॑नो अध्व॒रे॒३॒॑ऽग्निः पा॑व॒क ईड्य॑ः ।
शो॒चिष्के॑श॒स्तमी॑महे ॥

पदपाठः

स॒म्ऽइ॒ध्यमा॑नः । अ॒ध्व॒रे । अ॒ग्निः । पा॒व॒कः । ईड्यः॑ ।
शो॒चिःऽके॑शः । तम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

योऽग्निरध्वरे यज्ञे समिध्यमानो घृताज्याहुतिभिः सम्यक् प्रज्वाल्यमानोऽत एव शोचिष्केशो ज्वाकेशः पावकः शोधक ईड्यः स्तोतृभिः प्रशस्यो भवति तमिममभिमतफलार्थमीमहे । वयं याचामहे ॥ ईड्यः । ईड स्तुतावित्यस्माण्ण्यत् । अस्य तित्स्वरितमिति स्वरितत्वे प्राप्त ईडवन्देत्यादिनाद्युदत्तत्वम् । ईमहे । ई कान्त्यादिषु । अयं धातुरत्र याज्ञार्थः । निघातः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८