मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २७, ऋक् ५

संहिता

पृ॒थु॒पाजा॒ अम॑र्त्यो घृ॒तनि॑र्णि॒क्स्वा॑हुतः ।
अ॒ग्निर्य॒ज्ञस्य॑ हव्य॒वाट् ॥

पदपाठः

पृ॒थु॒ऽपाजाः॑ । अम॑र्त्यः । घृ॒तऽनि॑र्निक् । सुऽआ॑हुतः ।
अ॒ग्निः । य॒ज्ञस्य॑ । ह॒व्य॒ऽवाट् ॥

सायणभाष्यम्

पृथुपाजाः प्रभूततेजोरुपोऽमर्त्यो मरणधर्मरहितो घृतनिर्णिक् । घृतस्य विलयनद्वारा शोधनं येनेति घृतनिर्णिक् । स्वाहुतः सुष्ठु होत्रादिभिः सम्यगिष्टः । एवं भूतोग्निर्यज्ञस्य ज्योतिष्टोमादेर्हव्यवाट् हव्यानां वोढा भवति ॥ पृथुपाजाः । कृदुत्तरपदस्वरः । स्वाहुतः । जुहोतेः कर्मणि क्तः । गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम् । हव्यवाट् । वहश्चेति ण्विः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८