मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २७, ऋक् ६

संहिता

तं स॒बाधो॑ य॒तस्रु॑च इ॒त्था धि॒या य॒ज्ञव॑न्तः ।
आ च॑क्रुर॒ग्निमू॒तये॑ ॥

पदपाठः

तम् । स॒ऽबाधः॑ । य॒तऽस्रु॑चः । इ॒त्था । धि॒या । य॒ज्ञऽव॑न्तः ।
आ । च॒क्रुः॒ । अ॒ग्निम् । ऊ॒तये॑ ॥

सायणभाष्यम्

सबाधः । रक्षोघ्न मन्त्रोच्चारणेन तद्विषयबाधा सह वर्तन्त इति सबाधः । यज्ञवन्तो यजनीयहविर्युक्ता यतस्रुचः । यताः संयताः स्रुचो जुह्वाद्यायैस्ते यतस्रुचः । ऋत्विजः । इत्थेत्थमनेन प्रकारेण क्रियमाणया धिया स्तुत्या तमेवम्भूतमग्निमूतये राक्षबाधाद्रक्षणाय आ अभिमुखं चक्रुः । कुर्वन्ति ॥ सबाधः । बाधृ विलोडन इत्यस्मात् क्विप् । कृदुत्तरपदस्वरः । इत्था । इदंशब्दात्प्रकारार्थ इदमस्थमुः । तस्य सुपां सुलुगिति डादेशः । उदात्तनिवृत्तिस्वरेणान्तोदात्तः । चक्रुः । डुकृञ् करण इत्यस्य लिट्युसि यणादेशे कृते तस्य द्विर्वचनेऽचीति स्थानिवद्भावाद्द्विर्वदनम् । निघातः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९