मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २७, ऋक् १३

संहिता

ई॒ळेन्यो॑ नम॒स्य॑स्ति॒रस्तमां॑सि दर्श॒तः ।
सम॒ग्निरि॑ध्यते॒ वृषा॑ ॥

पदपाठः

ई॒ळेन्यः॑ । न॒म॒स्यः॑ । ति॒रः । तमां॑सि । द॒र्श॒तः ।
सम् । अ॒ग्निः । इ॒ध्य॒ते॒ । वृषा॑ ॥

सायणभाष्यम्

ईळेन्यः त्तोतृभिरीड्योऽत एव नमस्यः सर्वैर्नमस्कार्यस्तमांसि तिरोध्वान्तानि स्वप्रभाभिस्तिरस्कुर्वन् दर्शतः कमनीयतया सर्वैर्दर्शनीयः । तादृशोऽग्निर्वृषा यजमानस्य कामानां वर्षिता समिध्यते । आहुतिप्रक्षेपेण प्रज्वाल्यते । उक्तार्थे वाजसनेयकम् । ईडेन्योह्येष नमस्यो ह्येष तिरस्तमांसि ददृशे समिद्ध इति ॥ ईळेन्यः । ईड स्तुतौ । कृत्यार्थे तवैकेन्केन्यत्वन इति केन्यः । प्रत्ययस्वरः । दर्शतः । दृशिर् प्रेक्षणे । अस्माद्भृमृदृशीत्यादिना कर्मण्यतच् प्रत्ययः । चित्स्वरः । वृषा । वृषा सेचन इत्यस्मात्कनिन्युवृषीत्यदिना कनिन् । कित्त्वादगुणः । नित्त्वादाद्युदात्तः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०