मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २७, ऋक् १५

संहिता

वृष॑णं त्वा व॒यं वृ॑ष॒न्वृष॑ण॒ः समि॑धीमहि ।
अग्ने॒ दीद्य॑तं बृ॒हत् ॥

पदपाठः

वृष॑णम् । त्वा॒ । व॒यम् । वृ॒ष॒न् । वृष॑णः । सम् । इ॒धी॒म॒हि॒ ।
अग्ने॑ । दीद्य॑तम् । बृ॒हत् ॥

सायणभाष्यम्

वृषन् कामानां वर्षितर्हे अग्ने वृषणो वृषाणो घृताज्याहुतीनां सेक्तारो वयं वृषणमाहुतिद्वारोदकस्य सेक्तारम् । तथा च स्मृतिः । अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः । मनु. ३-७६ । इति दीद्यतं दीप्यमानं बृहदत एव महान्तं तमिममग्निं समिधीमहि । सम्यग्दीपयामः ॥ इधीमहि । ञि इन्धी दीप्तावित्यस्य प्रार्थने लिङि नकारलोपश्छान्दसः । निघातः । दीद्यतम् । दीदेतिर्दीप्तिकर्मा । तस्य शतरि रूपम् । अभ्यस्तानामादिरित्याद्युदात्तत्त्वम् । ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०