मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २८, ऋक् २

संहिता

पु॒रो॒ळा अ॑ग्ने पच॒तस्तुभ्यं॑ वा घा॒ परि॑ष्कृतः ।
तं जु॑षस्व यविष्ठ्य ॥

पदपाठः

पु॒रो॒ळाः । अ॒ग्ने॒ । प॒च॒तः । तुभ्य॑म् । वा॒ । घ॒ । परि॑ऽकृतः ।
तम् । जु॒ष॒स्व॒ । य॒वि॒ष्ठ्य॒ ॥

सायणभाष्यम्

यविष्ठ्य युवतम हे अग्ने यः पुरोळाः । पुरोडाशन्तेऽध्वर्व्यादय एनमिति पुरोडाः पुरोडाशः । पचतः कपालयोः पक्वोऽस्ति । स च तुभ्यं त्वदर्थं परिष्कृतो वा घ पर्यग्निकरणादिभिरलंकृतः खलु । तमिमं पुरोडाशं जुषस्व । सेवस्व ॥ पुरोळाः । दाश्र दान इत्यस्मात्पुरुस्पूर्वान्मन्त्रे श्वेतवहोक्थशस्पुरोडाशोण्विन् । पा. ३-२-७१ । इति कर्मणि ण्विनि कृते श्वेतवहादीनां डस्पदस्य । पा. ३-२-७१-१ । इति डस्प्रत्यये च कृते अवयाः श्वेतवाः पुरोडाशाश्चेति निपातनाद्दकारस्य डत्वम् । पुरोडाशन्त एनमिति पुरोडाः पुरोडाशः । डकारस्य ळकारो बह्वृ च साम्प्रदायिकः । कृदुत्तरपदस्वरः । पचतः । डुपचष् पाक इत्यस्माद्भृमृदृशीत्यादिना कर्मण्यतच् प्रत्ययः । पच्यतेऽसाविति पचतः पक्वः । चित्स्वरः । घा । ऋचितुनुघेत्यादिना सम्हितायां दीर्घः । परिष्कृतः । सम्पर्युपेभ्यः करोतौ भूषण इतिकरोतेः सुडागमः । गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम् । यविष्ठ्य । यविष्ठ एव यविष्ठ्यः । पादार्घाभ्यां च । पा. ५-४-२५ । इत्यत्र च कारेण वस्वादीनां स्वार्थे यत्प्रत्यय स्योपादानाद्यविष्ठ्येत्र स्वार्थिको यत्प्रत्ययः । आमन्त्रितत्त्वान्निघातः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१