मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २८, ऋक् ४

संहिता

माध्यं॑दिने॒ सव॑ने जातवेदः पुरो॒ळाश॑मि॒ह क॑वे जुषस्व ।
अग्ने॑ य॒ह्वस्य॒ तव॑ भाग॒धेयं॒ न प्र मि॑नन्ति वि॒दथे॑षु॒ धीरा॑ः ॥

पदपाठः

माध्य॑न्दिने । सव॑ने । जा॒त॒ऽवे॒दः॒ । पु॒रो॒ळाश॑म् । इ॒ह । क॒वे॒ । जु॒ष॒स्व॒ ।
अग्ने॑ । य॒ह्वस्य॑ । तव॑ । भा॒ग॒ऽधेय॑म् । न । प्र । मि॒न॒न्ति॒ । वि॒दथे॑षु । धीराः॑ ॥

सायणभाष्यम्

कवे मेधाविन् हे जातवेद इहास्मिन्नग्निष्टोमाख्ये कर्मणि तत्र च माध्यन्दिने मध्यन्दिनसम्बन्धिनि सवने पुरोडाशं माध्यन्दिनसवनीयपुरोडाशम् । जुषस्व । सेवस्व । हे अग्ने विदथेषु यज्ञेषु धीराः कर्मकुशला अध्वर्व्यादयो यह्वस्य । यान्ति प्राप्नुवन्ति देवा हविंष्यनेनेति यह्वो महानग्निः । यह्वस्य महतस्तव भागधेयं भागतया परिकल्पितमिमं पुरोडाशं न प्रमिनन्ति । न हिंसन्ति । किन्तु तुभ्यं प्रयच्छन्ति । तं जुषस्वेति शेषः । माध्यन्दिने । मध्यन्दिनस्येदमित्यर्थ उत्सादित्वादञ् । ञेत्त्वादादिवृद्धिः । ञित्त्वादेवाद्युदात्तत्वम् । यह्वस्य । या प्रापण् इत्यस्मात् शेवयह्वजिह्वेति निपातनात्करणे वन्प्रत्ययः । हुगागमधातुह्रस्वौ । यान्त्यनेनेशि यह्वोऽग्निः । व्यत्ययेनान्तोदात्तः । भागधेयम् । भागशब्दात्स्वार्थे भागरूपानामभ्यो धेयप्रत्ययो वक्तव्यः । पा. ५-४-३६-२ । इति धेयः । प्रत्यय स्वरः । मिनन्ति । मिञ् हिम्सायामित्यस्य क्र्यादित्वात् श्ना । तस्मिन् मीनातेर्निगम इति ह्रस्वत्वं हिनु मीना । पा. ८-४-१५ । इति णत्वं न भवति सर्वविधीनां छन्दसि विकल्पितत्वादिति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१