मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २९, ऋक् ३

संहिता

उ॒त्ता॒नाया॒मव॑ भरा चिकि॒त्वान्त्स॒द्यः प्रवी॑ता॒ वृष॑णं जजान ।
अ॒रु॒षस्तू॑पो॒ रुश॑दस्य॒ पाज॒ इळा॑यास्पु॒त्रो व॒युने॑ऽजनिष्ट ॥

पदपाठः

उ॒त्ता॒नाया॑म् । अव॑ । भ॒र॒ । चि॒कि॒त्वान् । स॒द्यः । प्रऽवी॑ता । वृष॑णम् । ज॒जा॒न॒ ।
अ॒रु॒षऽस्तू॑पः । रुश॑त् । अ॒स्य॒ । पाजः॑ । इळा॑याः । पु॒त्रः । व॒युने॑ । अ॒ज॒नि॒ष्ट॒ ॥

सायणभाष्यम्

चिकित्वान् ज्ञानवानध्वर्युस्त्वमुत्तानायामधरारण्यामुत्तानशयायामुत्तरारणिमव भर । अधोमुखां धारय । अनन्तरं साधारारणिः सद्यःप्रवीता तदानीमेव निषिक्तरेतस्का सती वृषणं कामानां वर्षकमग्निं जजान । जनयतु । अथास्याग्नेरुशत्तमो विनाशयत् पाजस्तेजोमात्रं तत्राभूत् । अनन्तरमरुषस्तूप आरोचमानतेजः संघोपेत इळायास्पुत्र उत्तरवेद्या उत्पन्नोऽग्निर्वयुनेऽरण्यां योनिस्थानेजनिष्ट । अजनि ॥ जजान । जन जनने । लोडर्थे लिटि बहु लुमन्यत्रापि संज्ञा छन्दसोरिति णिलोपः । प्रत्ययान्तत्वाभावादाम्न भवति । निघातः । अरुषस्तूपः । न विद्यते रुषः क्रोधो यस्येत्यरुषः । क्रोधराहित्येन रोचमान इत्यर्थः । नञ् सुभ्यामित्युत्तर पदान्तोदात्तत्वम् । ष्टुञ् स्तुतौ । स्तौतेर्दीर्घश्च उ.३-३-५ । इति प प्रत्ययः किच्च धातोर्दीर्घश्च । स्तूयत इति स्तूपस्तेजः सम्घः । अरुष आरोचमानस्तेजः संघो यस्येति बहुव्रीहौ पूर्वपदस्वरः । रुशत् । रुश हिम्सायाम् । शतरि रूपम् । वयुने । अज गतिक्षेपणयोः । अजि यमि शीङ् भ्यश्चेत्युनन् चित्संज्ञकः । अजति वीयते वा वयुनमङ्गम् । प्रत्ययस्य व्यत्ययेनाद्युदात्तत्वम् । अजनिष्ट । जनी प्रादुर्भावे । लुङि सिचि रूपम् । निघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२