मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २९, ऋक् ६

संहिता

यदी॒ मन्थ॑न्ति बा॒हुभि॒र्वि रो॑च॒तेऽश्वो॒ न वा॒ज्य॑रु॒षो वने॒ष्वा ।
चि॒त्रो न याम॑न्न॒श्विनो॒रनि॑वृत॒ः परि॑ वृण॒क्त्यश्म॑न॒स्तृणा॒ दह॑न् ॥

पदपाठः

यदि॑ । मन्थ॑न्ति । बा॒हुऽभिः॑ । वि । रो॒च॒ते॒ । अश्वः॑ । न । वा॒जी । अ॒रु॒षः । वने॑षु । आ ।
चि॒त्रः । न । याम॑न् । अ॒श्विनोः॑ । अनि॑ऽवृतः । परि॑ । वृ॒ण॒क्ति॒ । अश्म॑नः । तृणा॑ । दह॑न् ॥

सायणभाष्यम्

यद्यध्वर्व्यादयो बाहुभिः स्वकीयैर्हस्तैरग्निं मन्थन्ति मथ्नन्ति ततह् स जातोऽग्निर्वनेषु काष्ठेषु वाजी शीघ्रगमनवान् अरुष आरोचमानः सर्वेषां प्रीतिकरः सन् अ वि रोचते । आ समन्ताद्विशेषेण दीप्यते । तत्र दृष्ठान्तः । अश्वोनेति । यथाश्वो वनेषु वननीयेषु वाह्यालिस्थानेषु वेगवानारोचमानो वर्तते तद्वत् । तत्रैव दृष्ठान्तान्तरम् । चित्रो नेति । यथा यामन् यामनि वेगगमनेऽश्विनोर्देवभिषजोश्चित्रो नानाविधवर्णो रथ आरोचमानो वर्तते तद्वत् । अनिवृतः केनाप्यप्रतिबद्धगमनः सोऽयमग्निरश्मन उपलान् तृणा तृणानि च दहन् भस्मसात्कुर्वन् परि वृणक्ति । दग्धस्थानानि परितो वर्जयति । तादृशोऽगिरारोचत इति पुर्वेणान्वयः । मन्थन्ति । मन्थ विलोडने । लटि रूपम् । यदियोगाद निघातः । रोचते । रुच दीप्तौ भौवादिकः । लिटि रूपम् । निघातः । यामन् या प्रापने । अतो मनिन्द्वनिब्वनिपश्चेति मनिन् । सुपां सुलुगित्यादिना सप्तम्या लुक् । नित्स्वरः । अनिवृतः । वृञ् वरणे । निष्ठायां यस्य विभाषेतीट् प्रतिषेधः । निपूर्वो वृणोतिर्निवारणे वर्तते । न निवृतोऽनिवृतः । नञ्स्वरः । वृणक्ति । वृजी वर्जने रुधादिः । चोः कुरिति कुत्वम् । निघातः । तृणा । तृह हिम्सायाम् । तृहेः क्नो हलोपश्च । उ. ५-८ । इति क्नः कित्त्वादगुणः । हलोपश्च । तृह्यते तद्गवादिभिरिति तृणम् । नित्स्वरः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३