मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २९, ऋक् ७

संहिता

जा॒तो अ॒ग्नी रो॑चते॒ चेकि॑तानो वा॒जी विप्र॑ः कविश॒स्तः सु॒दानु॑ः ।
यं दे॒वास॒ ईड्यं॑ विश्व॒विदं॑ हव्य॒वाह॒मद॑धुरध्व॒रेषु॑ ॥

पदपाठः

जा॒तः । अ॒ग्निः । रो॒च॒ते॒ । चेकि॑तानः । वा॒जी । विप्रः॑ । क॒वि॒ऽश॒स्तः । सु॒ऽदानुः॑ ।
यम् । दे॒वासः॑ । ईड्य॑म् । वि॒श्व॒ऽविद॑म् । ह॒व्य॒ऽवाह॑म् । अद॑धुः । अ॒ध्व॒रेषु॑ ॥

सायणभाष्यम्

जातो मन्थनानन्तरमुत्पन्नः स च चेकितानो सर्वं जानानः सन् वाजी सततगमनस्वभावो विप्रः कर्माभिज्ञोऽत एव कविशस्तः कविभिर्मेधाविभिर्होतृभिः स्तुतः सुदानुः सुष्ठु कर्मफलस्य दाता एवं विधोऽग्नी रोचते । दीप्यते । हे वासो देवा इन्द्रादय ईड्यं होत्रादिभिः स्तुत्यं विश्वविदम् सर्वस्य जगतो वेदितारम् यमग्निमध्वरेषु ज्योतिष्टोमादियज्ञेषु हव्यवाहं हव्यानां वोढारमदधुर्व्यदधुः सोऽग्निर्दीप्यत इति पूर्वेणान्वयः ॥ चेकितानः । कित ज्ञान इत्यस्य यट्लुकि गुणो यङ्लुकोरित्यभ्यासस्य गुणः । अभ्यस्तानामादिरित्याद्युदात्तत्वं कविशस्तः । थाथघञ् क्ताजबित्रकाणामित्यन्तोदात्तत्वम् । अदधुः । दधात्रेलुङि झेः सिजभ्यस्तविदिभ्यश्चेति जुस् । यद्वृत्तयोगादनिघातः । अडागमस्वरः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३