मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २९, ऋक् ११

संहिता

तनू॒नपा॑दुच्यते॒ गर्भ॑ आसु॒रो नरा॒शंसो॑ भवति॒ यद्वि॒जाय॑ते ।
मा॒त॒रिश्वा॒ यदमि॑मीत मा॒तरि॒ वात॑स्य॒ सर्गो॑ अभव॒त्सरी॑मणि ॥

पदपाठः

तनू॒३॒॑ऽनपा॑त् । उ॒च्य॒ते॒ । गर्भः॑ । आ॒सु॒रः । नरा॒शंसः॑ । भ॒व॒ति॒ । यत् । वि॒ऽजाय॑ते ।
मा॒त॒रिश्वा॑ । यत् । अमि॑मीत । मा॒तरि॑ । वात॑स्य । सर्गः॑ । अ॒भ॒व॒त् । सरी॑मणि ॥

सायणभाष्यम्

योऽग्निर्यदा गर्भोऽरणीषु गर्भरूपतया वर्तते तदा सोऽग्निस्तनूनपादुच्यते । यष्टॄणां तनूः शरीराणि न पातयति न दहतीति व्युत्पत्तेः । यद्वा तनूशब्देनापोऽभिधीयन्ते नपाच्छब्देनैकान्तरिताः प्रजाः । तथा चापां नप्ता । कथमेतत् । आपस्तता अन्तरिक्षे । ताभ्य ऒषधिवनस्पतयो जायन्ते । तेभ्यो ह्येष इति यद्यदा विजायते विशेषेण प्रत्यक्षतया जायते तदासुरः कर्मविघ्नकारिणामसुराणां हन्तात एव नराशंसः नरैः कर्मणां नेतृभिरध्वर्व्यादिभिः शंसनीयो भवति यद्यदा मातर्यन्तरिक्षे स्वं तेजोऽमिमीत निर्मिमीते तदा मातरिश्वा भवति । मातर्यन्तरिक्षे श्वसितीचेष्टत इति व्युत्पत्तेः । एवंविधस्याग्नेः सरीमणि सरणे शीघ्रगमने वातस्य वायोः सर्गः सृष्टिरभवत् भवति । यदाग्निररणीषु गर्भरूपतया वर्तते तदा तनूनपान्नामको भवति । यदा जायते तदा नराशंसनामको भवति । यदान्तरिक्षे विद्योतते तदा मातरिश्वनामको भवतीति ॥ तनूपात् । तनु विस्तारे । कृषिचमितनिधनिसर्जखर्जिभृ ऊरित्यूप्रत्ययः । व्यत्ययेनाद्युदात्तः । नपात् । पा रक्षणे पत् लृ गतौ वा ण्यन्तः क्विप् । नपाति न पातयतीति वा नपात् । नभ्राण् न पान्नवेदा इत्यादिना निपातनान्नञि प्रकृतिभावः नञ्स्वरः । तनूर्न पातीति तनूनपात् । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्त उभे वनस्पत्यादिषु युगपदित्युभयपदप्रकृतिस्वरत्वम् । आसुरः । असुअस्यायमासुरः । अहितकारित्वेन सम्बन्धी तस्येदमित्यण् । प्रत्ययस्वरः । नराशंसः । नॄ नये । ॠदोरबित्यप् । प्रत्ययस्य त्त्वान्नरशब्द आद्युदात्तः । शन्सु स्तुतावित्यस्माद्घञन्त आद्युदात्तः । नरशब्दस्यान्येषामपि दृश्यत इति दीर्घः । वनस्पत्यादित्वादुभयोः प्रकृतिस्वरत्वं विजायते । जनी प्रादुर्भावे । दिवादित्वात् श्यन् । धातुस्वरः । अमिमीत । माङ् माने शब्दे च । जुहोत्यादिः । भृञामिदित्यभ्यासस्येत्वम् । यद्योगादनिघातः । सरीमणि । सृ गतौ । हृभृसृस्तृसूभ्यः । उ. ४-१४७ । इतीमनिन्प्रत्ययः । नित्स्वरः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४