मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २९, ऋक् १४

संहिता

प्र स॒प्तहो॑ता सन॒काद॑रोचत मा॒तुरु॒पस्थे॒ यदशो॑च॒दूध॑नि ।
न नि मि॑षति सु॒रणो॑ दि॒वेदि॑वे॒ यदसु॑रस्य ज॒ठरा॒दजा॑यत ॥

पदपाठः

प्र । स॒प्तऽहो॑ता । स॒न॒कात् । अ॒रो॒च॒त॒ । मा॒तुः । उ॒पऽस्थे॑ । यत् । अशो॑चत् । ऊध॑नि ।
न । नि । मि॒ष॒ति॒ । सु॒ऽरणः॑ । दि॒वेऽदि॑वे । यत् । असु॑रस्य । ज॒ठरा॑त् । अजा॑यत ॥

सायणभाष्यम्

सनकात्सनातनोऽग्निः सप्त होता । सप्तहोतारो होत्रका यस्यासौ सप्तहोतासन् प्रारोचत । हार्हपत्यस्थानेऽदीप्यत । यद्यदा मातुः पृथिव्या उपस्थ उत्सङ्गे तत्राप्यूधन्यूधःस्थान उत्तरवेद्यामशोचत् अशोभत तदा सोऽग्निः सुरणः । सुष्ठु रणयति शब्दयतीति सुरणः । सर्वैः कमनीयतया दृश्यमानः सन् दिवे दिवे प्रतिदिनं न निमिषति । न निद्राति । किन्तु सर्वदा यज्ञार्थं जागर्त्येव । यद्यस्मादसुरस्याग्नेः प्रेरकस्यारणीरूपस्य काष्ठस्य जठरादुदरादजायत कर्मार्थमुदपद्यत तस्मान्न निमिशतीति पूर्वेणान्वयः ॥ आरोचत । रुच दीप्तावित्यस्य लङि रूपम् । निघातः । अशोचत् । शुच दीप्तौ । ऊधनि । सकारस्य नकारश्छान्दसः । मिषति । मिषुसेचन इत्यस्य लिटि रूपम् । सुरणः । रण शब्दे । तत्करोतीति णिच् । तस्मादकृच्छ्रार्थे खल् । लित्स्वरः । असुरस्य । असु क्षेपण इत्यस्मादसेरुरन्नित्युरन्प्रत्ययः । अस्यतीत्यसुरः नित्स्वरः । जठरात् । जनी प्रादुर्भाव इत्यस्मात् जनेररष्ठच । उ. ५-३८ । इत्यरप्रत्ययः । थकारश्चान्तादेशः । प्रत्ययस्वरः । अजायत । जनी प्रादुर्भाव इत्यस्य लङेश्यनि ज्ञाजनोर्जेति धातोर्जादेशः । यद्योगादनिघातः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४