मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३०, ऋक् १

संहिता

इ॒च्छन्ति॑ त्वा सो॒म्यास॒ः सखा॑यः सु॒न्वन्ति॒ सोमं॒ दध॑ति॒ प्रयां॑सि ।
तिति॑क्षन्ते अ॒भिश॑स्तिं॒ जना॑ना॒मिन्द्र॒ त्वदा कश्च॒न हि प्र॑के॒तः ॥

पदपाठः

इ॒च्छन्ति॑ । त्वा॒ । सो॒म्यासः॑ । सखा॑यः । सु॒न्वन्ति॑ । सोम॑म् । दध॑ति । प्रयां॑सि ।
तिति॑क्षन्ते । अ॒भिऽश॑स्तिम् । जना॑नाम् । इन्द्र॑ । त्वत् । आ । कः । च॒न । हि । प्र॒ऽके॒तः ॥

सायणभाष्यम्

विश्वामित्र स्तौति । हे इन्द्र सोम्यासः सोमार्हा ब्राह्मणास्त्वा त्वां शंसितुमिच्छन्ति । अत एव सखायस्ते ब्राह्मणास्त्वदर्थं सोमं सुन्वन्ति । अभिषुण्वन्ति । प्रयांसीतराण्यपि हविंषि दधति । त्वदर्थं धारयन्ति । त्वया प्रेरिताः सन्तोजनानां सपत्नानामभिशस्तिं तत्कृतां हिम्सां तितिक्षन्ते । सहन्ते । एवमनुग्राहकस्त्वत् त्वत्तोऽन्यः कश्चन हि को नाम पुरुष खलु आ प्रकेतः । सर्वतो जगति । प्रकेत्यते ज्ञाप्यत इति प्रकेतः । प्रज्ञापितो विद्यते ॥ सोम्यासः । सोममर्हतीत्यर्थे सोममर्हति य इति यः । प्रत्ययस्वरः । सुन्वन्ति । षुञ् अभिषवे । स्वादित्वात् श्नुः । सति शिष्टस्वरो बलीयानिति झिप्रत्ययस्वरः । दधति । दधातेर्लटिरुपम् । समानवाक्ये युष्मदस्मदादेशनिघाताः । पा. ८-१-१८-५ ॥ इति सोमपदस्येतरवाक्येनान्वयान्न निघातः । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । तितिक्षन्ते । तिज निशान इत्यस्य क्षमायां गुप्तिङ्किद्भ्यः सन्निति सन् । अभ्यस्तस्वरः । अभिशस्तिम् । शसु हिम्सायामित्यस्माद्भावे क्तिन् । तादौ च निति कृत्यताविति गतेः प्रकृतिस्वरत्वम् । प्रकेतः । कितज्ञाने । कर्मणि घञन्तः । थाथघञ्क्तीत्यन्तोदात्तत्वं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः