मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३०, ऋक् २

संहिता

न ते॑ दू॒रे प॑र॒मा चि॒द्रजां॒स्या तु प्र या॑हि हरिवो॒ हरि॑भ्याम् ।
स्थि॒राय॒ वृष्णे॒ सव॑ना कृ॒तेमा यु॒क्ता ग्रावा॑णः समिधा॒ने अ॒ग्नौ ॥

पदपाठः

न । ते॒ । दू॒रे । प॒र॒मा । चि॒त् । रजां॑सि । आ । तु । प्र । या॒हि॒ । ह॒रि॒ऽवः॒ । हरि॑ऽभ्याम् ।
स्थि॒राय॑ । वृष्णे॑ । सव॑ना । कृ॒ता । इ॒मा । यु॒क्ताः । ग्रावा॑णः । स॒म्ऽइ॒धा॒ने । अ॒ग्नौ ॥

सायणभाष्यम्

हरिवः । हरिवर्णावश्वौ यस्य सोऽयं हरिवानिन्द्रः । हे हरिवः परमाचित् परमाणि दूरे वर्तमानान्यपि राजाम्सि स्थानानि ते तव दूरे न भवन्ति । तस्माद्भरिभ्यामुपेतस्त्वं तु क्षिप्रमा प्रयाहि । अस्मदीयं यज्ञमभिलक्ष्यागच्छ । स्थिराय फलप्रदाने दृढचित्तायात एव वृष्णे कामानां वर्षित्रे तुभ्यमिमा इमानि सवना सवननि प्रातरादीनि कृता । कृतानि । किञ्च । अग्नावाहवनीये समिधान आहुत्यधिकरणतया सम्यग्दीप्यमाने सति ग्रावान उपला युक्ताः । सोमाभिषवार्थमुद्युक्ताः । अतस्त्वं क्षिप्रमागच्छेति भावः ॥ यहि । या प्रापण इत्यस्य लोटि रूपम् । हरिवः । हरी अस्य स्त इति मतुप् । छन्दसीर इति तस्य वत्वम् । आमन्त्रितत्वान्निघातः । स्थिराय ष्ठा गतिनिवृत्तावित्यस्मादचिरशिशिरेत्यादिना किरच् । प्रत्ययान्तत्वेन निपातनादाकारलोपः । चित्स्वरः । सवना । षुञ् अभिषव इत्यस्मादधिकरणे ल्युट् चेति ल्युट् । सूयरे सोमो यत्रेति सवानि प्रातरादीनि । लित्स्वरः । समिधाने । ञि इन्धी दीप्तावित्यस्य कानचि रूपम् । कित्वान्नकारलोपः । चित्स्वरः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः