मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३०, ऋक् ३

संहिता

इन्द्र॑ः सु॒शिप्रो॑ म॒घवा॒ तरु॑त्रो म॒हाव्रा॑तस्तुविकू॒र्मिरृघा॑वान् ।
यदु॒ग्रो धा बा॑धि॒तो मर्त्ये॑षु॒ क्व१॒॑ त्या ते॑ वृषभ वी॒र्या॑णि ॥

पदपाठः

इन्द्रः॑ । सु॒ऽशिप्रः॑ । म॒घऽवा॑ । तरु॑त्रः । म॒हाऽव्रा॑तः । तु॒वि॒ऽकू॒र्मिः । ऋघा॑वान् ।
यत् । उ॒ग्रः । धाः । बा॒धि॒तः । मर्त्ये॑षु । क्व॑ । त्या । ते॒ । वृ॒ष॒भ॒ । वी॒र्या॑णि ॥

सायणभाष्यम्

वृषभ कामानां वर्षक हे इन्द्र यस्त्वमिन्द्रः परमैश्वर्यसम्पन्नः सुशिप्रः । शिप्रशब्देन शिरस्त्राणमभिधीयते । शोभनशिरस्त्राणोपेतः । यद्वा शोभनहनुमान् । शिप्रे हनू नासिके वा । नि. ६-१७ ॥ इति यास्कः । मघवा धनवान् तरुत्रः । तरन्त्यनेन शत्रून्देवा इति तरुत्र इन्द्रः । महव्रातः । मरुद्भिर्महान्व्रातः सुमूहो यस्येति स तथोक्तः । तुविकुर्मिः सङ्ग्रामे नानाविधकर्माणां कर्ता ऋघावान् शत्रुविषय हिम्सावान् अत एवोग्रः शत्रूणां भयङ्करः स तादृशस्त्वं बाधितोऽसुरैः सङ्रामे बाधितः सन् मर्त्येषु मारयितृष्व सुरेषु यत् यानि वीर्याइ धा व्यधा इदानीं ते तव त्या तानि वीर्याणि क्व । क्वासते वद । सुशिप्रः ॥ सृप्लृ गतौ । औणादिको रन्प्रत्ययः । बाहुलकात्सृ इत्यस्य शि इत्यादेशः । बहुव्रीहावाद्युदात्तं द्व्यच्छन्दसीत्युत्तरपदाद्युदात्तत्वम् । महाव्रातः । आन्महत इत्याकारादेशो महतस्तकारस्य । तुविकूर्मिः । करोतेरौणादिको मिप्रत्ययः । गुणे कृतेऽकारस्योत्वं छान्दसम् । हलि चेति दीर्घः । ऋघावान् । ॠन् हन्तीत्यृघाः । अन्येभ्योऽपि दृश्यन्त इति विच् । दृशिग्रहणान्नलोपो हकारस्य घत्वम् । तदस्यास्तीति मतुबर्थे छन्दसीवनिपाविति वनिप् । व्यत्ययेनाद्युदात्तः । क्व । किम्शब्दस्य सप्तम्यर्थे किमोऽदित्यत्प्रत्ययः । तस्मिन् क्वातीति क्वादेशः । इत्त्स्वरः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः