मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३०, ऋक् ५

संहिता

उ॒ताभ॑ये पुरुहूत॒ श्रवो॑भि॒रेको॑ दृ॒ळ्हम॑वदो वृत्र॒हा सन् ।
इ॒मे चि॑दिन्द्र॒ रोद॑सी अपा॒रे यत्सं॑गृ॒भ्णा म॑घवन्का॒शिरित्ते॑ ॥

पदपाठः

उ॒त । अभ॑ये । पु॒रु॒ऽहू॒त॒ । श्रवः॑ऽभिः । एकः॑ । दृ॒ळ्हम् । अ॒व॒दः॒ । वृ॒त्र॒ऽहा । सन् ।
इ॒मे । चि॒त् । इ॒न्द्र॒ । रोद॑सी॒ इति॑ । अ॒पा॒रे इति॑ । यत् । स॒म्ऽगृ॒भ्णाः । म॒घ॒ऽव॒न् । का॒शिः । इत् । ते॒ ॥

सायणभाष्यम्

उतेत्यामन्त्रणे हे इन्द्र पुरुहूत पुरुभिर्बहुभिर्यज्वभिराहूत । यद्वादैवैरसुरेभ्यो रक्षार्थं बहुवारमाहूतः श्रवोभिर्वीर्यैरुपेत एकोऽसहायस्त्वं वृत्रहा वृत्रशत्रोर्हन्ता सन् अभयेऽसुरेभ्यः सकाशान्मा बिभीतेति देवान्प्रति यद्वाक्यमवदोऽवोचस्तद्वाक्यं दृढम् । सत्यमेव । किञ्च । मघवन्निन्द्र त्वमपारे चित् दूरपारेऽपीमे रोदसी द्यावापृथिवौ यद्यस्माक्कारणात्संगृभ्णाः सङ्गृह्णासि । परस्परमधरोत्तरभावेन संयोजिते करोषीति यावत् । एष ते तव महिमा काशितित् प्रकाशो लोके प्रसिद्ध एव । यद्वा यत् येन ते रोदसी संगृह्णासि ते तव काशिर्मुष्टिर्महान् । काशिर्मुष्टिः । नि.६-१ । इति यास्कः ॥ अभये । ञभी भय इत्यस्माद्भाव एरजित्यच् प्रत्ययः । न ञा समासे तस्य स्वरः । अवदः । वद व्यक्तायां चाचि । लङि रूपम् । निघातः । अपारे । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । संगृभ्णाः । ग्रह उपादाने । क्र्यादित्वात् श्ना । ग्रहज्यावयीत्यादिना सम्प्रसारणम् । हृग्रहोर्भश्छन्दसीति हकारस्य भकारः । इतश्चेति सिप इकारलोपः । बहुलं छन्दसीत्यडभावः । समासस्वरः । काशिः । काशृ दीप्तौ । औणादिक इप्रत्ययः । प्रत्ययस्वरः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः