मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३०, ऋक् ६

संहिता

प्र सू त॑ इन्द्र प्र॒वता॒ हरि॑भ्यां॒ प्र ते॒ वज्र॑ः प्रमृ॒णन्ने॑तु॒ शत्रू॑न् ।
ज॒हि प्र॑ती॒चो अ॑नू॒चः परा॑चो॒ विश्वं॑ स॒त्यं कृ॑णुहि वि॒ष्टम॑स्तु ॥

पदपाठः

प्र । सु । ते॒ । इ॒न्द्र॒ । प्र॒ऽवता॑ । हरि॑ऽभ्याम् । प्र । ते॒ । वज्रः॑ । प्र॒ऽमृ॒णन् । ए॒तु॒ । शत्रू॑न् ।
ज॒हि । प्र॒ती॒चः । अ॒नू॒चः । परा॑चः । विश्व॑म् । स॒त्यम् । कृ॒णु॒हि॒ । वि॒ष्टम् । अ॒स्तु॒ ॥

सायणभाष्यम्

हे इन्द्र ते तव हिरिभ्यामश्वाभ्यां युक्तो रथः शत्रूनभिलक्ष्य प्रवता प्रवणेन मार्गेण सु सुष्ठु प्रैतु । शीघ्रं गच्छतु । तथा ते वज्रोऽशनिः शत्रूनसुरान्प्रमृणन् हिंसन्प्रैतु । त्वं च प्रतीचस्त्वदाभिमुख्येनागच्छतः शत्रून् जहि । मरय । तथानूचोऽनुगच्छतः पार्षिग्राहानसुरान्पराचः पलायनपरांश्च जहि । एवं शत्रुषु बाधितेषु सत्सु विश्वं जगत्सत्यम् कृणुहि । सत्यभुताग्निहोत्रादिकर्मपरं कुरु । एवं विधं सामर्थ्यं त्वयि विष्टं निविष्टमस्तु ॥ प्रवता । प्रशब्दादुपसर्गाच्छन्दसि धात्वर्थ इति वतिः । प्रत्ययस्वरः । प्रमृणन् । मृण हिम्सायाम् । जहि । हन हिंसागत्योरित्यस्य लोटि सिपो हिरादेशः । तस्मिन्हन्तेर्ज इति जादेशः । अतो हेरिति लुकि प्राप्त आभाच्छास्त्रस्यासिद्धत्वान्निवृत्तिः । हेर्ङित्त्वादन्तोदात्तः । प्रतीचः । अञ्चु गति पूजनयोः । अञ्चेश्छन्दस्यसर्वानामस्थानमिति विभक्तेरुदात्तत्वम् । पराचः । अनिगन्तोऽञ्चतौ वप्रत्यय इति गतेः प्रकृतिस्वरत्वम् । कृणुहि । कृवि हिम्साकरणयोः । अस्तु । अस भुवि ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः