मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३०, ऋक् ८

संहिता

स॒हदा॑नुं पुरुहूत क्षि॒यन्त॑मह॒स्तमि॑न्द्र॒ सं पि॑ण॒क्कुणा॑रुम् ।
अ॒भि वृ॒त्रं वर्ध॑मानं॒ पिया॑रुम॒पाद॑मिन्द्र त॒वसा॑ जघन्थ ॥

पदपाठः

स॒हऽदा॑नुम् । पु॒रु॒ऽहू॒त॒ । क्षि॒यन्त॑म् । अ॒ह॒स्तम् । इ॒न्द्र॒ । सम् । पि॒ण॒क् । कुणा॑रुम् ।
अ॒भि । वृ॒त्रम् । वर्ध॑मानम् । पिया॑रुम् । अ॒पाद॑म् । इ॒न्द्र॒ । त॒वसा॑ । ज॒घ॒न्थ॒ ॥

सायणभाष्यम्

हे पुरुहूतेन्द्र त्वं सहदानुं दानुर्दानवी वृत्रमाता तया सह वर्तमानम् । तथा च मन्त्रवर्णः । दानु शये सहवत्सा । ऋग्वे. १-३२-९ । इति यद्वा सहदानुं दानुभिर्दानवैः सह वर्तत इति सहदानुः । तंक्षियन्तं बाधमानं कुणारुं क्वणनशीलंकिञ्चिदसुरमहस्तं हस्तहीनं कृत्वा सं पिणक् । सम्यक् चूर्णीकुरु । किञ्च । हे इन्द्र वर्धमानं सर्वत इषुमात्रं वर्धमानम् । स इषु मात्रमिषुमात्रं विष्वङ्गवर्धत । तै. सं. २-४-१२ । इति श्रुतेः । पियारुं हिंस्रं वृत्रं वृत्रासुरमपादं पादहीनं कृत्वा तवसा बलेनाभिजघन्थ । हतवानसि । यद्वा सह दानुमुदकदानोपेतं क्षयनमाकाशे निवसन्तं कुणारुं गर्जन्तं वृत्रम् । वृणोत्याच्छादयति नभ इति वृत्रो मेघः । तमिमं वर्धमानं मेघं हस्तपादशून्यं कृत्वा सम्पणक् । संपिण्डि । तथा च यास्कः । अहसमिन्द्र कृत्वा सम्पिण्डि परिक्वणं मेघम् । नि. ६-१ । इति । सहदानुम् । दो अवखण्डने । दाभाभ्यां नुरिति नुप्रत्ययः । द्यतीति दानुर्दानवः । यद्वा दानुर्दानुम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । क्षियन्तम् । क्षि निवासगत्योः । तुदादित्वाच्छः । प्रत्ययस्वरः । पिणक् । पिष्लृ सञ्चूर्णने । रुधादित्वात् श्नम् । हेर्लुक् शकारस्य ककारश्छान्दसः । कुणारुम् । कुणशब्देने । बाहुलकाद्रूपसिद्धिः । आद्युदात्तः । जघन्थ । हन हिम्सागत्योरित्यस्य लिटि थलि रूपम् । अभ्यासाच्चेति धातुहकारस्य घत्वम् । निघातः । उपदेशेऽत्वत इतीट् प्रतिषेधः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः