मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३०, ऋक् ९

संहिता

नि सा॑म॒नामि॑षि॒रामि॑न्द्र॒ भूमिं॑ म॒हीम॑पा॒रां सद॑ने ससत्थ ।
अस्त॑भ्ना॒द्द्यां वृ॑ष॒भो अ॒न्तरि॑क्ष॒मर्ष॒न्त्वाप॒स्त्वये॒ह प्रसू॑ताः ॥

पदपाठः

नि । सा॒म॒नाम् । इ॒षि॒राम् । इ॒न्द्र॒ । भूमि॑म् । म॒हीम् । अ॒पा॒राम् । सद॑ने । स॒स॒त्थ॒ ।
अस्त॑भ्नात् । द्याम् । वृ॒ष॒भः । अ॒न्तरि॑क्षम् । अर्ष॑न्तु । आपः॑ । त्वया॑ । इ॒ह । प्रऽसू॑ताः ॥

सायणभाष्यम्

हे इन्द्र महीं महतीमत एवापारामिषिरां स्थानाभावेन चलन्तीं एवं विधां भूमिं समानाम् । तथा च मन्त्रवर्णः । गावौ ते सामनावितः । ऋग्वे. १०-८५-११ । इति । यद्वा सम एव साम । तथा च शतपथे श्रूयते । यदेव समः प्णुषिणा समो मशकेन समो नागेन सम एतैस्त्रिभिर्लोक्येस्तस्मादेव साम । १४-४-१ । इति । तदस्यास्तीति सामनः । तां साम्यवतीं कृत्वा सदने स्वे स्थाने नोषसत्थ । निवेशयामासिथ । तथा वृषभोऽभिमतफलानां वर्षक इन्द्रो द्यां द्युलोकमस्तभ्नात् । यथा न पतति तथाधारयत् । तथान्तरिक्षम् । एवं द्यावापृथिव्योरवस्थितौ सत्यां त्वया प्रसूता मेघभेदनेन प्रेरिता आप इह भूमावर्षन्तु । आगच्छन्तु । तथा च मन्त्रवर्णः । यः । पृथिवीं व्यथमानामदृंहत् । ऋग्वे. २-१२-२ । इति । सामनाम् । सव एव साम । तद्स्स्यास्तीति मतुबर्थे पामादित्वान्नप्रत्ययः । प्रत्ययस्वरः । इषिराम् । इष गतौ । इषिमदीत्यादिना । उ. १-५२ । किरच् प्रत्ययः । कित्त्वादगुणः । चित्स्वरः । ससत्थ । पद्लृ विशरणगत्यवसादनेष्वित्यस्यान्तर्भावितण्यर्थस्य लिटि थल्युपेदेशेऽत्वत इतीट्प्रतिषेधः । नोघातः । अस्तभ्नात् । स्तन्भु स्तम्भन इति सौत्रो धातुः । सम्भुस्तुम्भ्वित्यादिना श्नाप्रत्ययः । श्नान्नलोप; इति धातुनकारोलोपः । अडागमस्वरः । अर्षन्तु । ऋषी गतौ । व्यत्ययेव शप्प्रत्ययः । गुणः । पादादित्त्वादनिघातः । आपः । अर्षन्तु । ऋषी गतौ व्यत्ययेव शप्प्रत्ययः । गुणः । पादादित्त्वादनिघातः । आपः । अप्लृ व्याप्तौ । क्विप् धातोर्ह्रस्वश्च । जस्यप्तृन्तृजित्यादिना दीर्घः । जसः सुप्त्वादनुदात्तत्वे धातुस्वरः । प्रसूताः । षू प्रेरण इत्यस्य कर्मणि निष्ठा । गतिरन्तर इति गतेः प्रकृतिस्वरत्वं ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः