मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३०, ऋक् ११

संहिता

एको॒ द्वे वसु॑मती समी॒ची इन्द्र॒ आ प॑प्रौ पृथि॒वीमु॒त द्याम् ।
उ॒तान्तरि॑क्षाद॒भि नः॑ समी॒क इ॒षो र॒थीः स॒युजः॑ शूर॒ वाजा॑न् ॥

पदपाठः

एकः॑ । द्वे इति॑ । वसु॑मती॒ इति॒ वसु॑ऽमती । स॒मी॒ची इति॑ स॒म्ऽई॒ची । इन्द्रः॑ । आ । प॒प्रौ॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ।
उ॒त । अ॒न्तरि॑क्षात् । अ॒भि । नः॒ । स॒म्ऽई॒के । इ॒षः । र॒थीः । स॒ऽयुजः॑ । शू॒र॒ । वाजा॑न् ॥

सायणभाष्यम्

योऽयमिन्द्र एकोऽसहाय एव सन् प्रथिवीमुत अपि च द्यां द्वे एते द्यावापृथिव्यौ समीची परस्परसङ्गते वसुमती धनयुक्ते सत्यावा पप्रौ समन्तात्पूर्वरयमास । उत अपि च हे शूर सामर्थ्योपेत तादृशस्त्वं रथी रथवान् स नोऽस्माकं समीके समीप इषः स्थातुमिच्छन् सयुजः सङ्गतान्वाजान् । वजन्ति गच्छन्तीति वाजा अश्वाः । तानश्वानन्तरिक्षादन्तरिक्षसकाशात् अभि प्रेरय । रथारूढस्त्वमस्मत्समीपं शीघ्रमागच्छेति भावः ॥ वसुमती । वा छन्दसीति पुर्वसवर्णदीर्घः । पत्रौ । प्रा पूरण इत्यस्य लिटि णलि आत औणल इत्यौकारः । निघातः । इषः । इषु इच्छायाम् । अस्मादिगुपधलक्षणः कः । कित्त्वादगुणः । प्रत्ययस्व्वरः । रथीः । रथोऽस्यास्तीति मतुबर्थे छन्दसीवनोपाविति ईप्रत्ययः । प्रत्ययस्वरः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः