मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३०, ऋक् १३

संहिता

दिदृ॑क्षन्त उ॒षसो॒ याम॑न्न॒क्तोर्वि॒वस्व॑त्या॒ महि॑ चि॒त्रमनी॑कम् ।
विश्वे॑ जानन्ति महि॒ना यदागा॒दिन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ ॥

पदपाठः

दिदृ॑क्षन्ते । उ॒षसः॑ । याम॑न् । अ॒क्तोः । वि॒वस्व॑त्याः । महि॑ । चि॒त्रम् । अनी॑कम् ।
विश्वे॑ । जा॒न॒न्ति॒ । म॒हि॒ना । यत् । आ । अगा॑त् । इन्द्र॑स्य । कर्म॑ । सुऽकृ॑ता । पु॒रूणि॑ ॥

सायणभाष्यम्

विश्वे सर्वे जना विवस्वत्या विवासनवत्या निर्गमपराया अक्तो रात्रेः सम्बन्धिन उषसो यामन् यामनि निर्गमने सति महि महत् चित्रं चायनीयमनीकं सौरं तेजो दिदृक्षन्ते । द्रष्टुमिच्छन्ति यद्यदा आगात् उषःकालः समन्तागतो व्यपैति तदा तेजो दिदृक्षमाणाः सर्वे जना महिना महनीयान्यग्निहोत्रादीनि कर्माणि जानन्ति । कर्तव्यतयावबुध्यन्ते । हे इन्द्र पुरूणि बहूनि सुकृता सुष्ठु कृतानि कर्म कर्माणीन्द्रस्य तवैव ॥ दिदृक्षन्ते । दृशिर् प्रेक्षण इत्यस्य सनि ज्ञाश्रुस्मृदृशां सनः । पा.१-३-५७ । इत्यात्मनेपदम् । अभ्यस्तस्वरः । विवस्वत्याः । विवासतेः सम्पादिलक्षणः । क्विप् । व्यत्ययेनोपधाह्रस्वत्वम् । तस्मात्तदस्यास्तीति मतुप् । मादुपधाया इति तस्य वत्वम् । मतुपः पित्त्वादनुदात्तत्वे धातुस्वरः । जानन्ति । ज्ञा अवबोधने । ज्ञाजनोर्जेति जादेशः । निघातः । आगात् । इण् गता वितृस्य लुङि रूपम् । यद्योगादनिघातः । सुकृता । गतिरनन्तर इति गतेः । प्रकृतिस्वरत्वं ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः