मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३०, ऋक् १५

संहिता

इन्द्र॒ दृह्य॑ यामको॒शा अ॑भूवन्य॒ज्ञाय॑ शिक्ष गृण॒ते सखि॑भ्यः ।
दु॒र्मा॒यवो॑ दु॒रेवा॒ मर्त्या॑सो निष॒ङ्गिणो॑ रि॒पवो॒ हन्त्वा॑सः ॥

पदपाठः

इन्द्र॑ । दृह्य॑ । या॒म॒ऽको॒शाः । अ॒भू॒व॒न् । य॒ज्ञाय॑ । शि॒क्ष॒ । गृ॒ण॒ते । सखि॑ऽभ्यः ।
दुः॒ऽमा॒यवः॑ । दुः॒ऽएवाः॑ । मर्त्या॑सः । नि॒ष॒ङ्गिणः॑ । रि॒पवः॑ । हन्त्वा॑सः ॥

सायणभाष्यम्

हे इन्द्र दृहुय । दृढो भव । यतो यामकोशाः । यान्त्यस्मिन्निति यामोमार्गः । तस्य कोशाः कोशवदाच्छादका मार्गप्रतिबन्धका राक्षसा अभूवन् । त्वं यज्ञाय यज्ञकर्त्रे गृणते स्तोत्रं कुर्वते यजमानाय सखिभ्यः पुत्रादिभ्यश्च शिक्ष । अपेक्षितं फलं दत्स्व । दुर्मायवः । दुष्टमायुधानि मिन्वन्ति प्रक्षिपन्तीति दुर्मायुवः । दुरेवा दुष्टं गच्छन्तो मर्त्यासो मारयितारो निषङ्गिणः । निषङ्गशब्देनेषुधिरभिधीयते । तद्वन्तः । एवं विधसामर्थ्योपेता रिपवः शत्रवो राक्षसा हन्त्वासः । त्वया हननीयाः ॥ दृह्य । दृह दृहि वृह वैहि वृद्धौ । व्यत्ययेन श्यन् । लोटि रूपम् । नित्स्वरः । अभूवन् । भू सत्तायाम् । अस्य लुङि रूपम् । गातिस्थेति सिचो लुक् । भूसुवोस्तिङीति गुणे प्रतिषिद्धे भुवो वुग्लुङ् लिटोरिति वुगागमः । निघातः । शिक्ष । शिक्ष विद्योपादाने । अयं धातुरत्र दाने वर्तते । व्यत्ययेन परस्मैपदम् । निघातः । दुर्मायवः । मिनोतेः कृवापाजिमीत्यादिना उण्प्रत्ययः । कृदुत्तरपदस्वरः । दुरेवाः । इण् गतु । इण्यिङ्भ्यां वन्निति कर्तरि वन्प्रत्ययः । रिपवः । रपेरिच्चोपधाया इत्युप्रत्ययः । उपधाया इत्वम् । प्रत्ययस्वरः । हन्त्वासः । हन हिंसागत्योः । कृत्यार्थे तवैकेन्केन्यत्वन इति त्वन् । नित्त्वादात्युदात्तः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः