मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३०, ऋक् १६

संहिता

सं घोषः॑ शृण्वेऽव॒मैर॒मित्रै॑र्ज॒ही न्ये॑ष्व॒शनिं॒ तपि॑ष्ठाम् ।
वृ॒श्चेम॒धस्ता॒द्वि रु॑जा॒ सह॑स्व ज॒हि रक्षो॑ मघवन्र॒न्धय॑स्व ॥

पदपाठः

सम् । घोषः॑ । शृ॒ण्वे॒ । अ॒व॒मैः । अ॒मित्रैः॑ । ज॒हि । नि । ए॒षु॒ । अ॒शनि॑म् । तपि॑ष्ठाम् ।
वृ॒श्च । ई॒म् । अ॒धस्ता॑त् । वि । रु॒ज॒ । सह॑स्व । ज॒हि । रक्षः॑ । म॒घ॒ऽव॒न् । र॒न्धय॑स्व ॥

सायणभाष्यम्

हे इन्द्र अवमैः समीपे वर्तमानैरमित्रैः शत्रुभिरसुरैरुत्सृष्टो योऽशनिर्घोषो घुष्यमाणः सं शृण्वे सम्यगस्माभिः श्रूयते तपिष्ठामतिशययेन तापिकां तामशनिमेषु शत्रुप्वेव निघाय जहि । मारय । तैः प्रयुक्तामशनिं तानेव प्रपयेति भावः । ईमेनान् शत्रून् अधस्तान्मूलतो वृश्च । छिन्धि । किञ्च वि रुज । तान्विशेषेण बाधस्व । सहस्व । अभिभव च हे मघवन्निन्द्र रक्षः कर्मविघ्नकारीणि रक्षांसि जहि । मारय । अनन्तरमिमं यज्ञं रन्धयस्व । पारं नय ॥ शृण्वे । निघातः । जहि । हन हिम्सागत्योः । अस्य लोटि रूपम् । अशनिम् । आशू व्याप्तौ । अत्यवितॄभ्योऽनिरित्यनिप्रत्ययः । प्रत्ययस्वरः । तपिष्थाम् । तप्तृशब्दादिष्ठन्प्रत्ययः । नित्स्वरः । वृश्च । ओव्रत्चू छेदने । तुदादिः । ग्रहिज्यादिना सम्प्रसारणम् । सहस्व । वाक्यभेदादनिघातः । रन्धयस्व । रध हिंसासंराद्ध्योरित्यस्य ण्यन्तस्य लोटि रधिजभोरचीति नुडागमः । वाक्यब्घेदादनिघातः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः