मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३०, ऋक् १७

संहिता

उद्वृ॑ह॒ रक्ष॑ः स॒हमू॑लमिन्द्र वृ॒श्चा मध्यं॒ प्रत्यग्रं॑ शृणीहि ।
आ कीव॑तः सल॒लूकं॑ चकर्थ ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ॥

पदपाठः

उत् । वृ॒ह॒ । रक्षः॑ । स॒हऽमू॑लम् । इ॒न्द्र॒ । वृ॒श्च । मध्य॑म् । प्रति॑ । अग्र॑म् । शृ॒णी॒हि॒ ।
आ । कीव॑तः । स॒ल॒लूक॑म् । च॒क॒र्थ॒ । ब्र॒ह्म॒ऽद्विषे॑ । तपु॑षिम् । हे॒तिम् । अ॒स्य॒ ॥

सायणभाष्यम्

हे इन्द्र रक्षः कर्मविघ्नकारि रक्षो रक्षकुलं सहमूलं मूलसहितं यथा भवति तथोद्वृह । उद्धर । किञ्च । मध्यं तस्य मध्यभागं वृश्च । छिन्धि । प्रत्यग्रमग्रं प्रत्यागतं तत् शृणीहि । जहि । तस्य रक्षःकुलस्य मध्ये सललूकं सरणशीलं रक्ष आकीवतः । आङ् मर्यादायाम् । कियतोऽनिर्ज्ञायमानपरिमाणादतिदूराद्देशाच्चकर्थ । कुरु । कृत्वा च ब्रह्मद्विषे ब्राह्मणद्वेषकारिणे तस्मै रक्षसे तपुषिं तापकं हेतिं घातुकमायधमस्य । क्षिप । उक्तमर्थं यास्कोऽब्रवित् । उद्धर रक्षः सह मूलमिन्द्र । मूलं मोचनाद्दामोषणाद्वा मोहनाद्वा । वृश्च मध्यं प्रति शृणीह्यग्रम् । अग्रमागतं भवति । आ कियतो देशात्सललूकं सल्लुब्धं भवति पापकमिति नैरुक्ताः सररूकं वा स्यात् सर्तेरभ्यस्तात् । तपुश्जिस्तपतेर्हेतिर्हन्तेः । नो. ६-३ । इति ॥ वृह । वृहू उद्यमन इत्यस्य लोटि रूपम् । शृणीहि । शॄ हिम्सायाम् । अस्य लोटि हौ ई हल्यघोरितीत्वम् । निघातः । कीवतः । किं शब्दात्किं परिमाणमस्येत्यर्थे किमिदंभ्यां वो घ इति किंशब्दाद्वतुबस्तीति ज्ञापितत्वाद्वतुब्घादेशाभावश्छान्दसः । इदंकिमोरीश्की इति की इत्यादेशः । सललूकम् । सि गतौ । छान्दसी रूपसिद्धिः । चकर्थ । डुकृञ् करण इत्यस्य लिटि थलि रूपम् । क्रादित्वादिडभावः । निघातः । तपुषिम् । तप सन्ताप इत्यस्मादर्ति पॄवपियजितनिघनितपिभ्यो निदित्युसिप्रत्ययो निच्च । अकारस्य इकारश्छान्दसः । नित्स्वरः । हेतिम् । हन हिंसागत्योः । ऊतियूतिजूतिसातीत्यादिना निपातनादन्तोदात्तः । अस्य । असु क्षेपणे । लोटि रूपम् ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः