मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३०, ऋक् १८

संहिता

स्व॒स्तये॑ वा॒जिभि॑श्च प्रणेत॒ः सं यन्म॒हीरिष॑ आ॒सत्सि॑ पू॒र्वीः ।
रा॒यो व॒न्तारो॑ बृह॒तः स्या॑मा॒स्मे अ॑स्तु॒ भग॑ इन्द्र प्र॒जावा॑न् ॥

पदपाठः

स्व॒स्तये॑ । वा॒जिऽभिः॑ । च॒ । प्र॒ने॒त॒रिति॑ प्रऽनेतः । सम् । यत् । म॒हीः । इषः॑ । आ॒ऽसत्सि॑ । पू॒र्वीः ।
रा॒यः । व॒न्तारः॑ । बृ॒ह॒तः । स्या॒म॒ । अ॒स्मे इति॑ । अ॒स्तु॒ । भगः॑ । इ॒न्द्र॒ । प्र॒जाऽवा॑न् ॥

सायणभाष्यम्

प्रणेतः प्रकर्षेण जगतो निर्वाहक हे इन्द्र अस्मान्वाजिभिरश्वैः सहितान् कुरु । स्वस्तये चाविनाशाय कुरु । यदात्वं समासत्सि अस्माकं समीपे यज्ञनिर्वाहार्थमासीदसि तदा वयं महीर्महान्तिषोऽन्नानि पूर्वीः प्रभुतानि रायो धनानि वन्तारस्तेषां सम्भक्तारः सन्तो बृहतो महान्तः स्याम । भवेम । किञ्च प्रजावान् अपत्योपेतं भगो धनमस्मे अस्मास्वस्तु । भवतु ॥ आसत्सि । षद्लृ विशरणादिषु । आसत्सि । बहुलं छन्दसीति शपो लुक् । यद्योगादनिघातः । इषो राय इति च द्वे षष्ठ्यर्थे द्वितीये । वन्तारः । वन षण सम्भक्तावित्यस्य तृचि आगमानुशासनस्यानित्यत्वादिडभावः । चित्स्वरः । स्याम । अस भुवीत्यस्य लिङि रूपम् । अस्मे । अस्मच्छब्दस्य सप्तम्याः सुपां सुलिगिति शे इत्यादेशः ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः