मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३०, ऋक् १९

संहिता

आ नो॑ भर॒ भग॑मिन्द्र द्यु॒मन्तं॒ नि ते॑ दे॒ष्णस्य॑ धीमहि प्ररे॒के ।
ऊ॒र्व इ॑व पप्रथे॒ कामो॑ अ॒स्मे तमा पृ॑ण वसुपते॒ वसू॑नाम् ॥

पदपाठः

आ । नः॒ । भ॒र॒ । भग॑म् । इ॒न्द्र॒ । द्यु॒ऽमन्त॑म् । नि । ते॒ । दे॒ष्णस्य॑ । धी॒म॒हि॒ । प्र॒ऽरे॒के ।
ऊ॒र्वःऽइ॑व । प॒प्र॒थे॒ । कामः॑ । अ॒स्मे इति॑ । तम् । आ । पृ॒ण॒ । व॒सु॒ऽप॒ते॒ । वसू॑नाम् ॥

सायणभाष्यम्

हे इन्द्र नोऽस्मदर्थं द्युमन्तं दीप्तियुक्तं भगं धनमाभर । आ समन्तात्सम्भर । देष्नस्य दानशीलस्य ते तव सम्बन्धिनो धनस्य प्रेरके प्ररेचने दाने निघीमहि । धनदानस्य वयं प्रातभूताः स्म इत्यर्थेः । कुत इत्यत आह । अस्मे अस्माकं कामोऽभिलाष ऊर्व इव अनवाप्तकामो वडवानल इव पप्रथे । प्रभूतो वर्तते । वसूनां वसुपते धनानां मध्य उत्तमधनानामधिपते हे इन्द्र तं महान्तं काममापृण । बहुधनप्रदानेनापूरय । भर । भृञ् भरण इत्यस्य लोटि रूपम् । देश्णस्य । डुदाञ् दाने । गादाभ्यामिष्णुजं ष्णुच् प्रत्ययः । अत्यर्थं ददातीति देष्णः । चित्स्वरः । धीमहि । दधातेर्लिङि बहुलं छन्दसीति शओप् लुक् । छन्दस्युभयथेति महिङः सार्वधातुकत्वात्सीयुटः सलोपः । आर्धधातुकत्वादतो लोपः । निघातः । ऊर्व इव । पूर्वपदस्वरः । पप्रथे प्रथ प्रख्यान इत्यस्य लिटि रूपम् । पृण । पृण प्रीणन इत्यस्य लोटि सेर्हिः । तुदादिः । आतो हेरिति हेर्लुक् । वसूनाम् । नित्त्वादाद्युदात्तः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः