मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३१, ऋक् ३

संहिता

अ॒ग्निर्ज॑ज्ञे जु॒ह्वा॒३॒॑ रेज॑मानो म॒हस्पु॒त्राँ अ॑रु॒षस्य॑ प्र॒यक्षे॑ ।
म॒हान्गर्भो॒ मह्या जा॒तमे॑षां म॒ही प्र॒वृद्धर्य॑श्वस्य य॒ज्ञैः ॥

पदपाठः

अ॒ग्निः । ज॒ज्ञे॒ । जु॒ह्वा॑ । रेज॑मानः । म॒हः । पु॒त्रान् । अ॒रु॒षस्य॑ । प्र॒ऽयक्षे॑ ।
म॒हान् । गर्भः॑ । महि॑ । आ । जा॒तम् । ए॒षा॒म् । म॒ही । प्र॒ऽवृत् । हरि॑ऽअश्वस्य । य॒ज्ञैः ॥

सायणभाष्यम्

हे इन्द्र आरुषस्यारोचमानस्य तव प्रयक्षे यज्ञार्थं जुह्वा ज्वालाभीरेजमानः कम्पमानोऽग्निर्महः प्रभूतान् पुत्रान् रश्मीन् जज्ञे । उत्पादयामास । एषां रश्मीनां गर्भो जलात्मना क्रोडिकारो महानासीत् । किञ्च एषां रश्मीनां मेलनं आ जातं सर्वत ओषध्यात्मना जातं महि महदभूत् । किञ्च एषां रश्मीनां प्रवृत् अनेन प्रकारेण प्रवृत्तिर्हर्यश्वस्येन्द्रस्य यज्ञैर्यज्ञार्हैः सोमाहुतिभिर्मही महती भवति । जज्ञे । जनी प्रादुर्भाव इत्यस्य लिटि रूपम् । अन्तर्भाविण्यर्थः । जुह्वा । जुहोतेर्द्वे दीर्घश्चेति क्विप् द्विर्वचनं दीर्घश्च धातोः । उदात्तस्वरितयोरिति स्वरितत्वम् । हर्यश्वस्य । हरी अश्वौ यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः