मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३१, ऋक् ६

संहिता

वि॒दद्यदी॑ स॒रमा॑ रु॒ग्णमद्रे॒र्महि॒ पाथः॑ पू॒र्व्यं स॒ध्र्य॑क्कः ।
अग्रं॑ नयत्सु॒पद्यक्ष॑राणा॒मच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती गा॑त् ॥

पदपाठः

वि॒दत् । यदि॑ । स॒रमा॑ । रु॒ग्णम् । अद्रेः॑ । महि॑ । पाथः॑ । पू॒र्व्यम् । स॒ध्र्य॑क् । क॒रिति॑ कः ।
अग्र॑म् । न॒य॒त् । सु॒ऽपदी॑ । अक्ष॑राणाम् । अच्छ॑ । रव॑म् । प्र॒थ॒मा । जा॒न॒ती । गा॒त् ॥

सायणभाष्यम्

यदि यदा सरमेन्द्रेण गवान्वेषनार्थं प्रेषिता सरमा नाम देवशुन्यद्रेरुग्णं भग्नं द्वारं विदत् अलभत तदानीमिन्द्रो महि महत्पूर्व्यं पूर्वं प्रेषण कालेऽन्नादिनीं ते प्रजां करिष्यामीति प्रतिज्ञातं सध्र्यक् इतरैरपि भोज्यैः सद्रीचीनं पाथो गव्यादिलक्षणमन्नं कः । अकार्षीत् । तस्मै दत्तवान् । ततः सुपदी शोभनपादयुक्ता सा सरमाक्षराणां क्षयरहितानां गवामग्रं प्रान्तं नयत् । प्राप्नोत् । कुत इत्यत आह । यतो रवं तेषां हंभारवं प्रथमा प्रथमं जानती सती अच्छ शब्दाभिमुख्येन गात् । जगाम । विदत् । व्द्लृ लाभ इत्यस्य लुङि लृदित्त्वात् च्लेरङादेशः । तस्य स्वरः । सरमा । सृ गतौ । औणादिकोऽमप्रत्ययः । सरतीति । सरमा सरणादिति यास्कः । प्रत्ययस्वरः । रुग्णम् । रुजो भङ्ग इत्यस्य निश्ठायामोदितश्चेति नत्वम् । प्रत्ययस्वरः । पाथः । पा रक्षणे । अन्ने च । उ. ४-२०४ । इत्यसुन्प्रत्ययः । थुडागमः । पातीति पाथोऽन्नम् । नित्स्वरः । सध्र्यक् । अञ्चु गतिपूजनयोः । ऋत्विगित्यादिना क्विन् । सहाञ्चतिति । सहस्य सध्रिति सध्र्यादेशः । क्विन्प्रत्ययस्य कुत्वम् । अद्रि सध्र्योरन्तोदात्तत्वनिपातनं कृत्स्वरनिवृत्त्यर्थमिति सध्रि इत्यादेशोऽन्तोदात्तः । यणादेशे कृत उदात्तस्वरितयोर्यणः स्वरित इति यणः स्वरितत्वम् । कः । करोतेर्लुङि सिपि च्लेर्मन्त्रे घसह्वरेत्यादिना लुक् । गुणे कृते हल्ण्यादिना सिपो लोपः । विसर्जनीयः । निघातः नयत् । नयतेर्लङि रूपम् । सुपदी । पादोऽन्यतरस्याम् । पा. ४-१-८ । इति ङीप् । गात् । इणो लुङि रूपम् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः