मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३१, ऋक् ९

संहिता

नि ग॑व्य॒ता मन॑सा सेदुर॒र्कैः कृ॑ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम् ।
इ॒दं चि॒न्नु सद॑नं॒ भूर्ये॑षां॒ येन॒ मासाँ॒ असि॑षासन्नृ॒तेन॑ ॥

पदपाठः

नि । ग॒व्य॒ता । मन॑सा । से॒दुः॒ । अ॒र्कैः । कृ॒ण्वा॒नासः॑ । अ॒मृ॒त॒ऽत्वाय॑ । गा॒तुम् ।
इ॒दम् । चि॒त् । नु । सद॑नम् । भूरि॑ । ए॒षा॒म् । येन॑ । मासा॑न् । असि॑सासन् । ऋ॒तेन॑ ॥

सायणभाष्यम्

गव्यता गा इच्छता मनसा युक्ता अर्कैरर्चनीयैः स्तोत्रैरमृतत्वाय देवत्वप्राप्त्यर्थं गातुम् । गच्छन्त्यनेनेति गातुर्मार्गः । अमृतत्वप्राप्त्युपाय भूतं मार्गं कृण्वानासः कुर्वाणास्तेऽङ्गिरसो निषेदुः । सत्राख्ये कर्मण्यासीदन् । एषामङ्गिरसामिदं चित्सदनं इदमेव सत्राख्ये कर्मण्यासदनं भुरि नु । प्रभूतम् । अमृतत्वप्राप्त्यर्थं महानुपायः खलु । कुत इत्यत आह । ऋतेन सत्यभूतेन येन सत्रकर्मणा तेऽङ्गिरसो मासानभिप्लवपृष्ट्यषडहैः कल्पितान् मासान् असिसासन् । सम्भक्तुमैच्छन् ॥ गव्यता । गोशब्दात् क्यचि रूपम् । वान्तो यि प्रत्यय इति वान्तादेशः । एकादेशस्वरः । सेमः । सदेर्लिटि अत एकहल्मध्येऽनादेशादेर्लिटीत्येत्वाभासलोपौ । निघातः । कृण्वानासः । कृवि हिम्सा करणयोरित्यस्य ताच्छिलिकश्चानश् । धिन्विकृण्व्योरच्छेत्युप्रत्ययः । चित्स्वरः । गातुम् । गाङ् गतौ । कमिमनिजनिगाभापायाहिभ्य इति करणे तु प्रत्ययः । प्रत्ययस्वरः । असिषासन् । षण सम्भक्तावित्यस्य सनि जनसनखनां सन्झलोरित्यात्वम् । आभ्यासस्य सन्यत इतीत्वम् । सनोतेरन इति सम्हितायां षत्वम् । तदन्ताल्लङि रूपम् । यद्वृत्तयोगादनिघातः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः