मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३१, ऋक् ११

संहिता

स जा॒तेभि॑र्वृत्र॒हा सेदु॑ ह॒व्यैरुदु॒स्रिया॑ असृज॒दिन्द्रो॑ अ॒र्कैः ।
उ॒रू॒च्य॑स्मै घृ॒तव॒द्भर॑न्ती॒ मधु॒ स्वाद्म॑ दुदुहे॒ जेन्या॒ गौः ॥

पदपाठः

सः । जा॒तेभिः॑ । वृ॒त्र॒ऽहा । सः । इत् । ऊं॒ इति॑ । ह॒व्यैः । उत् । उ॒स्रियाः॑ । अ॒सृ॒ज॒त् । इन्द्रः॑ । अ॒र्कैः ।
उ॒रू॒ची । अ॒स्मै॒ । घृ॒तऽव॑त् । भर॑न्ती । मधु॑ । स्वाद्म॑ । दु॒दु॒हे॒ । जेन्या॑ । गौः ॥

सायणभाष्यम्

स इन्द्रो जातेभिः सहायतया सम्पन्नैर्मरुद्भिः सहितः सन् वृत्रहा वृत्रस्यासुरस्य हन्ता भवति । सेदु स एवेन्द्रोऽर्कैरर्चनीयैः अत एव हव्यैर्होतव्यैर्मरुद्भिः सहितः सन् उस्रियाः । ऊर्ध्वं वसुत्यासु क्षीरादिरूपं हविरित्युस्रियागावः । यद्वा ऊर्ध्वं क्षीरदधिनवनीतादि क्रमेणासु वसतीति । उस्रियेति गोनामोत्स्राविणोऽस्यां भोगाः । नि. ४-१९ । इति यास्कः । ता गा उदसृजत् । यज्ञार्थं सम्यक् ससर्ज । यस्मादेवं तस्मात् घृतवत् घृतोपेतं क्षीरादिकं हविर्भरन्ती बिभ्राणा आत एवोरूची । उरु प्रभूतमग्निहोत्रादिकमाञ्चति हविः प्रदातुं प्राप्नोतित्युरूची । जेन्या जेतव्या प्रशस्ता गौरस्मै यजमानाय स्वाद्म स्वादुतरं क्षीरादि दुदुहे । दुह्यते स्म ॥ उस्रियाः । वस निवास इत्यस्मात् स्फायिन्तञ्चीत्यादिना रक्प्रत्ययः । उस्रशब्दात् स्वार्थे घप्रत्ययः । प्रत्ययस्वरः । यद्वा सृ गतौ । उत्पूर्वस्य सरतेः कप्रत्ययः । पूर्वपदस्यान्त्यलोपश्छान्दसः । अत्रापि स्वार्थिको घप्रत्ययः । असृजत् । सृज विसर्ग इत्यस्य लङे रूपम् । उरूची । उर्वञ्चतीति क्विन् । अञ्चतेश्चोपसङ्ख्यानमिति ङीप् । उदात्तनिवृत्तिस्वरेणान्तोदात्तः । दुदुहे । दुह प्रपूरण इत्यस्य लिटि रूपम् । जेन्या । ययतेः कृत्यार्थे केन्प्रत्ययः । इकारलोपश्छान्दसः । प्रत्ययस्वरः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः