मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३१, ऋक् १२

संहिता

पि॒त्रे चि॑च्चक्रु॒ः सद॑नं॒ सम॑स्मै॒ महि॒ त्विषी॑मत्सु॒कृतो॒ वि हि ख्यन् ।
वि॒ष्क॒भ्नन्त॒ः स्कम्भ॑नेना॒ जनि॑त्री॒ आसी॑ना ऊ॒र्ध्वं र॑भ॒सं वि मि॑न्वन् ॥

पदपाठः

पि॒त्रे । चि॒त् । च॒क्रुः॒ । सद॑नम् । सम् । अ॒स्मै॒ । महि॑ । त्विषि॑ऽमत् । सु॒ऽकृतः॑ । वि । हि । ख्यन् ।
वि॒ऽस्क॒भ्नन्तः॑ । स्कम्भ॑नेन । जनि॑त्री॒ इति॑ । आसी॑नाः । ऊ॒र्ध्वम् । र॒भ॒सम् । वि । मि॒न्व॒न् ॥

सायणभाष्यम्

सत्रमनुतिष्ठन्तोऽङ्गिरसः पित्रे चित्पालकायास्मा इन्द्राय म्नहि महत् त्विषीमद्दीप्तिमत् सदनमत्त्तमं स्थानं सञ्चक्रुः । कथमिति चेदुच्यते । यतः सुकृतः समुपार्जितकर्माणस्तेऽङ्गिरसस्तादृशमिन्द्रस्योचितं स्थानं वि हि ख्यन् । विशेषेणादर्शयन् खलु । कुत इत्यत आह । आसीनाः सत्रमुपतिष्ठन्तस्तेऽङ्गिरसो जनित्री सर्वस्य जगतो जनयित्रौ द्यावापृथिवौ स्कम्भनेन स्तम्भनसाधनेनान्तरिक्शेण विष्क्भ्नन्तो यथा ते रोदस्यावधो न पततस्तथा विष्टब्धीकुर्वन्तः सन्तो रभसं वेगवन्तं तमिन्द्रमूर्ध्वं द्युलोके वि मिन्वन् । हविः स्वीकरणार्थं विशेषेणास्थापयन् । चक्रुः । करोतेर्लिट्युसि रूपम् । निघातः । ख्यन् । ख्या प्रकथने । अस्य लुङि च्लेरस्यतिवक्तिख्यातिभ्योऽङ्गित्यङादेशः । आतो लोप इटीत्याकारलोपः । हियोगादनिघातः । विश्कभ्नन्तः । स्कन्भु रोधने । सौत्रो धातुः । तस्माच्छतरि रूपम् । वेः स्कभ्नातेर्नित्यम् । पा. ८-३-७७ ॥ इति षत्वम् । शतृप्रत्ययस्वरः । जनित्री । ऋन्नेभ्यो ङेप् । जनिता मन्त्र इति निपातनाण्णिलोपः । वा छन्दसीति सवर्णदीर्घः । आसीनाः । आस उपवेशन इत्यस्माच्छानच् । ईदासः । पा. ७-२-८३ । इतीकारः । शानचो लसार्वधातुकस्वरे कृते धातुस्वरः । मिन्वन् । डुमिञ् प्रक्षेपन इत्यस्य लङे रूपम् । निघातः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः